Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । साटोपं रतिकलिकालसरसं रम्यं किमप्यादरा छत्पीतं सुतनोमया वैदनकं वक्तुं न तत्पार्यते ॥ ८८॥ यन्मया सुतनोदनकमधरग्रहचमत्कारिचुम्बनपूर्वकत्वेन यत्नात्पीतं तदनिर्वचनीयत्वादुक्तं न शक्यते। तस्य विशेषणान्याह-आन्तरेण मर्मस्पृशा दुःखेन कुसुममिव म्लानम् । प्रत्यवतुषारांशुवत्कान्तिविगलितत्वेन पाण्डु । असौस्थेनाहारस्यारोचकत्वात्सुतनोरिति पदेन] शरीरकार्यात्कृशम्। किंविशिष्टं सदुक्तवक्ष्यमाणविशेषणयोग्यं जातमित्याह-वियोगविधुरम् । इदं विशेषणं हेतुत्वेन सालसं यावत्सर्वत्र संबध्यते । नहि वैधुर्यमेव केवलं वियोगहेतुकम् । म्लानत्वादीनामपि तनिमित्तत्वात् । प्रसाधनपरित्यागेन कर्तनादिरहितखाल्लम्बालकम् । अन्तःखेदेन सालसम् । अथ दर्शनात्मकसंभोगसमुचितं विशेषणमाह। चिरमनोरथप्राप्त्या पुनस्तत्कालोल्लसितकान्ति । क्व सति । मयि पथिकेऽकस्माद्रभसप्राप्ते सति । अथ चुम्बनसमयविशेषणमाह-त्वमद्य यावन्मां विहाय तत्र स्थित इत्याशयेन मानाद्भूभङ्गादिभिः साटोपम् । रतिक्रीडासमये आर्द्रमत एव किमपि रमणीयम् । सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । मुग्धाया अल्पत्वेन मुखमप्यल्पं तेनाल्पार्थे कप्रत्ययेन वदनकम् । भयस्तत्क्षणजातकान्तीत्यनेन विलासः । 'ताकालिको विशेषस्तु विलासोऽङ्गक्रियादिषु' ॥ सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा वेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः । इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ ८९ ॥ कयाचिद्विपरीतरतिव्यतिकरे पूर्व पर्याकुलतया पुरुषभावस्त्यक्तस्तदनन्तरं वल्लभो मुक्तः । किं कृत्वा । तनुं ज्ञात्वा । मोहनसमये शरीरपरिज्ञानमेव नासीत्. का पुन: कथा स्त्रीपुरुषविषयविभागस्येति भावः । किंविशिष्टया । लजितया । क्व सति । इत्थं स्मृतरुपगमे । इत्थं कथम् । सैवाहं लजावती गृहलोकानां विदिता इदानीं प्रकृष्टमदा जाता । एतौ च तौ नपुरौ संभोगाभियोगेन शब्दायमानौ मयोच्छृङ्खलया लोकानां श्रुतिसंवादेन ज्ञापितौ। एषास्माकं स्त्रीणामक्रियैव । यतः सहजवीडैव धनं यस्य स तथोक्तः स्त्रीजनः । अतिशयभेदः पूर्वमलंकारः । 'निःसाध्वसत्वं प्रागल्भ्यं' इत्यनेन च प्रागल्भ्यं नाम नाट्यालंकारः॥ करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । १. 'केलिदत्तरभसं' इति शृङ्गारदीपिका. २. 'पीतं यत्' इति शृङ्गारदीपिका. ३. 'मुखमिदं तत्केन विस्मार्यते' इति शृङ्गारदीपिका. ४. 'विलम्बितमेखला' इति शृङ्गारदीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95