Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे .
तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ ८४ ॥ तस्मात्कथयत केनोपायेनात्र संस्थानके मानः स्थैर्य नीयताम्, अपि तु न केनापि । कथंभूतः । निरूप्यमाणनिपुणः । निपुणं निरूप्यमाणो निरूप्यमाणनिपुणः । सुप्सुपेति समासः । पूर्वनिपातानियमः । यतो यन्मानात्मकविरहातिवाहनक्षममिति संभावितमासीत्तदद्य मे मनो दृष्टेनैव यावदमुना शठेन प्राणेश्वरेण सहसा लुण्ठितम् । किंविशिष्टेन । एतदसंगमे कथं जीविध्यामीति मे धृतितस्करेण । (यदि पुनः संनिधावुपविश्य प्रणामादिकमारभते तदा तस्य कथैव का । तच्चानेन कृतमेव न । कथं ज्ञायत इत्याह-उकण्ठा न जाता । कुचौ न कम्पिती । अङ्गं न पुलकितम् । मुखमपि स्वेदकणचितं न जातम् ।) संनिधावुपविश्य यदि प्रणामादिकमारभते तदा सर्वमेव जातप्रायं भवतीत्यर्थः । अहो नूतनोऽयं तस्करो यदृष्टिमात्र एव पदार्थमपहरतीत्याश्चर्यद्योतकं शठेनेति प्रीतिवचनमेव ॥
दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः । इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ८५ ॥ तदा प्रवसतो नायकस्य दयितया प्रथमं जीवितास्था मुक्ता तदनन्तरं दयितो मुक्तः । तदा कदा। यदेत्यादिकं सर्वममानयित्वा गन्तुमेव कितवः प्रवृत्तः। किंविशिष्टः । मुमूघुमपि वल्लभामुपेक्षत इति निघृणः । इत्यादिकं किमित्याह-स्थापनार्थ दैन्यव्यञ्जकत्वेन कातरचक्षुषा चिरतरमवलोकितः । पश्चादञ्जलिं बद्धा प्रार्थितः । अनन्तरं वस्त्राञ्चलेन विधृतः । चरमं गाढमुपगूढः । गन्तुं प्रवृत्तो न तु गत एवेति हेतोरेकानुरागो न शङ्कनीयः । कर्तृदीपकमलंकारः । यदक्तम्-'यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥' अतिशयभेदः पूर्व च । यदुक्तम्-'यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाजनकस्य तु तद्भः वत्पूर्वम् ॥' यथा-'दुर्लभजनमभिलषतामादौ दंदह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चात्कामानलो ज्वलति ॥ कश्चिद्वियोगी दयितादुरवस्थामनुस्मरति
तप्ते महाविरहवह्निशिखावलीभि
रापाण्डुरस्तनतटे हृदये प्रियायाः । १. 'पल्लवे च' इति शृङ्गारदीपिका. २. 'इत्याक्षिप्य समस्तमेवमघृणो' इति शृङ्गा
रदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95