Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
७१ क्रोधप्रायं नर्म। समाधिरलंकारः । यथोक्तं काव्यादर्श–'युगपन्नैकधर्माणामभ्यासश्च मतो यथा' इति । शार्दूलविक्रीडितं वृत्तम् ॥ नायकोक्तिःआयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
भुग्नभूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ १०६ ॥ आयस्ता आयासं प्राप्ता । ईर्ष्याकोपेनेति शेषः । पुरेव पूर्वमिव वाससो वस्त्रस्य स्रेसने कलहं विवादं न कुरुते न विधत्ते । किं च केशग्रहे कचाकर्षणे पुरेव भुग्नभूभङ्गवती सती अतिखण्ड्यमानमत्यन्तं दश्यमानमधरं दन्तच्छदं न धत्ते न वहति । किं च हठालिङ्गने प्रसभाश्लेषे पुरेव वामा वक्रा न भवति । किं त्वङ्गानि गात्राणि स्वयमात्मनार्पयति प्रयच्छति । संप्रति पुनरिदानीं तु तन्व्या कान्तया एषोऽयमपरोऽन्यः कोपप्रकारो रोषभङ्गिः शिक्षितोऽभ्यस्त इति संबन्धः । अत्रावहित्थं नाम संचारी भावः । नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः। अत्र नर्मगर्भः । युक्तिरलंकारः । शार्दूलविक्रीडितम् ।। कवेर्वाक्यम् - क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः
क्वचिचूर्णोद्गारी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः
स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ १०७ ॥ क्वचिदेकत्र ताम्बूलाक्तस्ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपकाङ्कमलिनोऽगुरोः पङ्कस्तस्याङ्को लक्ष्म तेन मलिनो मलीमसः । क्वचिदेकत्र चूर्णोद्गारी चूर्णस्य कर्पूरादिक्षोदस्योद्गारो गलनं सोऽस्मिन्नस्तीति चर्णोद्गारी । 'अत इनिठनौ' इति मत्वर्थ इनिप्रत्ययः । क्वचिदपि च कुत्रापि सालक्तकपदोऽलक्तकेन लाक्षया सहितं सालक्तकं पदं पादमुद्रा यस्मिन्स तथोक्तः । वलीभङ्गाभोगैवल्य एव भङ्गास्तरङ्गास्तेषामाभोगो विस्तारस्तश्च । अलकपतितैरलकेभ्यः पतितान्यलकपतितानि तैः शीर्णकुसुमैः शीर्णानि विकाणानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः प्रच्छदपट आस्तरणपत्र स्त्रियः कान्ताया नानावस्थं बहुप्रकारावस्थानं रतं रमणं प्रथयति ख्यापयतीति संपन्धः । अत्र क्वचित्ताम्बलाक्त इत्यनेन मार्जारकरणं सूचितम् । यथोक्तं रतिरहस्येप्रसारित पाणिपादे शय्यास्प्रशि मखोरसि । उन्नतायां स्त्रियः कय्यां मार्जारकरणं म॥ इति । क्वचिदगुरुपङ्काङ्कमलिन इत्यनेन करिपदं नाम बन्धविशेषः सूच्यते । य
For Private and Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95