Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
२७
तम-एवमपरेऽपि व्रीडानुपहताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति । यथा 'स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरोकम्पेऽपि वृद्धि गते । दुरिस्मरनिर्भरेऽपि दृदये नैवाभियुक्तः प्रियस्तन्वङ्गया हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥' सद्भावरहःसहचरीणां परस्परसौभाग्यसाक्षात्कारेणाद्वादो भवतीत्यालीजन आनन्दितः । कविर्वक्ता । विनैव कञ्चलिकया धत्से मनोहारिणी लक्ष्मीमित्यनेन विभावनालंकारः । यदुक्तम् -'सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणापि ॥' अत्रार्थशक्त्याक्षिप्तो रिरंसालक्षणोऽर्थः कविना सखीजनसव्याजगमनात्मिकया स्वोक्त्या भूयोऽपि व्यञ्जितः। यदुक्तम्-'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृति+नेः ॥' यथा-'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' मनोहारिणी लक्ष्मीमित्यनेन शोभा नाम नाघ्यालंकार:-रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम्।' यथा-'तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाद्वियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥' मुग्धाक्षीत्यनेन कान्तिश्च–'मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता' ॥
यथा मानं त्याजिता सती तत्कालमवलम्ब्यमानेातिरेकेण संयुज्यमाना रहसि रमणे रतिरमणरहस्यसर्वस्वमुन्मुद्रयति न तथा नित्यमेवेत्यनुसंधाय सखीभिः प्रणयमानं शिक्षिता सती ताः प्रति काचिदाहभ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्दीक्षते
रुहायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते ____दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २८ ॥ लोचनगोचरे सति तस्मिञ्जने मानस्य निर्वाहः कथं भविष्यति, अपि तु न कथमपि । तास्मनित्यनिर्वचनीयचमत्कारे जने इत्यर्थान्तरसंक्रमितत्वेन प्राणेश्वर इत्यर्थः । नहि कृत्रिमरुपायरयुतसिद्धं वस्तु निहोतुं शक्यते । तदत्र क उपायाः किं च वस्त्वित्याहभङ्ग इत्यादिना । एवमेव तावत्प्रियतमं दृष्टि: सोत्कण्ठमुदीक्षते । भ्रुकुटिकौटिल्ये नाटिते पुनरधिकं सोत्कण्ठमदीक्षते । यथा कश्चित्पक्षी बलात्कारेण रुध्यमानः कथंकथमप्युड्डीय यत्रत्यो भवति तत्रैव गत्वा रमते । अभिनीतेऽपि वाचंयमत्वे ममेदं दग्धमुख सस्मितं भवति । धिक्कारे दग्धहतकादयः शब्दाः प्रयुज्यन्ते। अथ च तेन सार्धमामापनमन्तरेणाप्रयोजनमाननं दग्धमेव । काठिन्यं गत इत्येव न, अपि तु काठिन्यं मत । तथाभूतेऽपि मनसि तनः पुलकं विभर्ति । अथ च प्रिये काठिन्यं गमिते
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95