Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
काव्यमाला ।
न्वयं विना कारणैः स्थातुं न शक्नोमि तेन सह बाह्याकारेण (?) धृतिं बध्नामीत्याह-प्रे. यसि विषये प्राञ्जलतां परित्यज । मोहायितं नाम नाट्यालंकारः । 'मोहायितुं तु तद्भा. वभावनेष्टकथादिषु' । यथा पद्मगुप्तस्य - 'चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । वोडार्धवलितं चक्रे मुखेन्दुमवशैव सा' ॥
।
एष प्रक्षेपक श्लोकोऽपि व्याख्यायते । काचिज्जरदभिसारिका नवनिष्पन्नस्वैरिणीं प्राहक्व प्रस्थितासि करभोरु घने निशीथे
प्राणाधिको वसति यत्र जेनः प्रियो मे ।
एकाकिनी बैत कथं न विभेषि बाले
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ७१ ॥
मणिबन्धकनिष्ठयोरन्तरं करभः । तदाकारावूरू यस्यास्तस्याः । यथापूर्व पीवरतया ऊर्वोर्गौरवेण कथं गन्तुं शक्ष्यसीत्याशयेन संबोधनं हे करभोरु, निर्भरेऽर्धरात्रे क्क चलितासि । यथा मरणाध्यवसिता यदृच्छया मनोगतमाचष्टे तथा मन्मथोन्मत्ततया दुष्कराभिसारप्रवृत्ता सती उत्तरमाह - जीवितादप्यधिको यत्र स्थाने मम वल्लभो वसति । किं भूतः । जनो विधेयः । इत्युभयानुरागः । पूर्वा पुनः पृच्छति - हे बाले, असहाया केन प्रकारेण न विभेषि । बतशब्दः खेदार्थो बालाशब्दवत् । सोल्लुण्ठं स्वैरिण्युत्तरं ब्रूतेननु विद्यते सज्जितसायको मदनः सहायः । शरप्रहारोन्मुखमन्मथहेतुको ऽयमारम्भ इत्यर्थः । सहायो हि गन्तव्यं स्थानं प्रापयति । ननु सहायो यं सहायिनमनुगच्छति न तु तमेव प्रहर्तुं शरं पुङ्खयति तत्कथमत्र मदनः सहायः । सत्यम् । ईदृशमेवात्र साहाय्यं यत्पुङ्खितशरसज्जितमेव सहायी गन्तव्यं स्थानं प्राप्यते । यथा हन्यमानस्वार्थस्यैव दर्शनेन्द्रियस्य तमसि नीलिमोपलम्भः । अथवा नन्वस्ति पुङ्खितशरो मदनः सहाय इति सोलुण्ठम् । अहं किं करोमि यद्यद्विषमशरः कारयति तदेव करोमि । यथा विपरीतलक्षणायाम् ‘उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥' प्रश्नोत्तरमलंकारः ॥ लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कैश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुम्मलिताननेन्दु ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयथवा नतिमृते तेनानिशं चुम्बिता ॥ ७२ ॥ कश्चित्कामुकोऽन्याङ्गनास्वच्छन्ददष्टौष्ठो नायिकया क्रोडातामरसेन ताडित: सॅल्लो.
१. ‘प्राणेश्वरः इति शृङ्गारदीपिका. २. 'मनः प्रियः' इति शृङ्गारदीपिका. ३. 'वद'. इति शृङ्गारदीपिका. ४. ‘प्रेयान्' इति शृङ्गारदीपिका. ५. 'कान्ता कुङ्मलिताननेन' इति शृङ्गारदीपिका. ६. ‘तदा' इति शृङ्गारदीपिका. ७. 'तेनाभवत्' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95