Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदु वेदेवं कथं प्रमदाजनः ॥ ६७॥ हे नाथ, विषमेषुर्युवयोस्तनुं दुर्बलां करोति । किंविशिष्टः । प्रतिकूलः । कीदृशः सन्प्रतिकूलः । विरहे विषमः । संभोगे पुनरनुकूल एवेत्यर्थः । शरीरकार्योपन्यासेनैवं प्रतिदिनोत्पद्यमानक्षीणतया कतिपयदिवसैः संभोगयोग्यतैव युवयोरस्तमेष्यतीत्यर्थः । अयमिति प्रत्यक्षनिर्देशेन पुर इव वर्तमानो निरनुक्रोशोऽन्तकश्च दिवसगणनादक्षः एवंविधानपि दिवसांल्लेखयति । संभोगे विप्रलम्भे चायःक्षयस्तावदस्त्येव । तस्माद्विप्रलम्भे मृत्युवरमुतस्वित्संभोग इति यमशब्दस्योपयोगः । देहदौर्बल्येन संभोगपरिहारेण च मान एव व्याधिस्तस्य त्वमपि वशगः । अद्य यावन्मयैवं ज्ञातमासीद्यत्सैव मानव्याधेशगेत्यपिशब्दार्थः । तस्माद्विचिन्तय, एवमुत्पातपरम्परया प्रमदाजनः कथं जीवति । प्रस्तुते एकस्यामपि प्रमदायां प्रमदाजन इति जात्यपेक्षया लोकोक्तिः । अथवा प्रकृष्टो मदो रिम्सालक्षणो मान्मथो विकारो यस्याः सा प्रमदा । सैव विधेयत्वेन जनः । अथवा नायकस्यानेकनायिकास्पृहणीयत्वेन प्रमदासमूह एवास्तु । किंविशिष्टः । किसलयमृदुः । विरहदुरवस्थां सोढुमक्षम इत्यर्थः । अथ च किसलयकोमलं प्रमदाजनमालिङ्गय किमिति चरितार्थो न भवसीति । असत्समुच्चयोऽलंकारः ॥ कश्चित्प्रियामानोपशान्ति कस्यचिद्विसम्भसंभावितस्याग्रे कथयति
पादासक्ते सुचिरमिह ते वामता कैव मुग्धे । मन्दारम्भे प्रणयिनि जने कोऽपराधोपरोधः । इत्थं तस्याः परिजनकथाकोमले कोपवेगे।
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ६८॥ तस्यास्तदनन्तरं त्वरितमेव बाष्पोत्पीडैन विलम्बितं न च स्पन्नम् । क्व सति । कोपवेगे सति । किं विशिष्टे । सखीप्रायपरिजनस्येत्थं संबोधकथया शिथिले न तु दृढे । कोपवेगस्य कोमलतयाश्रुभिन स्थितम् । कोपसत्तया च न प्रवृत्तम् । स्तम्भितैरेव जातः । मित्यर्थः । इत्यं कथमित्याह-हे अचेतने, इह प्रणयिनि जने सुचिरं चरणलग्ने कैव तव वामता । प्रातिकल्यं न युज्यत इत्यर्थः । अथ च येन स्वेदरोमाञ्चप्रभृतयो भवन्ति तस्मिन्नपि दयितशरीरस्पर्श तव कठिनायाश्चेतसि मानस्तिष्ठतीति भावः । ननु सापराधोऽयं वामतां कथं त्यजामीत्याह-अस्मिन्मन्दारम्भे । कोऽर्थः-दोषोद्धोषणे कृतेऽपि। निरुत्तरतया नम्रमुखे यथाकथंचित्प्रसादमेवाकाङ्कति सति । तस्मादपराधस्य क उपरोधः।।
१. नैव कान्ते' इति शृङ्गारदीपिका. २. 'कोपने कोऽपराधः' इति शृङ्गारदीपिका. ३. 'परिजनगिरा कोपवेगे प्रशान्ते' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95