Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५०
www.kobatirth.org
काव्यमाला ।
Acharya Shri Kailassagarsuri Gyanmandir
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाप्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ ६२ ॥
सा वस्त्राश्ञ्चले प्रियस्य न लग्ना । तथा द्वारदेशेऽर्गलवद्धजलता न न्यस्ता । नापि चरणयुगले लुठितम्। तिष्ठेति वचनमपि नोक्तम् । कथं तर्हि निवारित इत्याह-काल इत्यादि । यस्मिन्देशान्तरादागत्य मिथुनानि मिलन्ति तस्मिन्मेघमालामलीमसे समये निर्दयः साहसिको गन्तुं प्रवृत्तः सन्कृशाङ्गया केवलमश्रुकल्लोलकल्पितनदीपूरेण वलभो निषिद्धः । अत्राश्रुनदीपूरेणेति वाक्येन रूपकेण मेघकार्यमश्रुभिरेव कृतमित्यनेन मेघाक्षेपेण परिपुष्टो विप्रलम्भः । औपम्यभेदः । पूर्वालंकारोऽप्यत्र प्रतीयते । यथा- 'काले' जलदकुलाकुलदशदिशि पूर्वे वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते
गगनम् ॥
काचित्परपुरुषानुरागिणी कस्याश्चिजरत्कुलटायाः पुरतः प्रतीकारप्रत्याशया स्वदुःखं
निवेदयति
आस्तां विश्वसनं सखीसु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न ब्रीडया ।
लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६३ ॥
हे मातः, कं शरणं व्रजामि । अपि तु न कमपि । तस्माद्धृदय एव केवलं संतापहेतुत्वेनानुराग एवानलो जरां प्राप्तः । तत्फलं किमपि नासादितमित्यर्थः । कथमित्याहआस्तामित्यादि । प्रियं जनं प्रति प्रेषणतदानयनादिकार्यसाधके सखीजने विश्वसनं तावदास्ताम् । ताः कस्याप्यग्रे स्फुटित्वा कथयेयुरित्यर्थः । तहि स्वयं दूतीविलसितं किमिति नारभ्यते इत्याह- इयं मयि सर्वात्मनानुरक्तेति विदितोऽभिप्रायसारो येन त. स्मिञ्जने दृष्टिमप्यारोपयितुं लज्जया न शक्नोमि । का कथा गमनानयनादिकार्यस्य । तर्हि लज्जां परित्यज्य तदवलोकन रसास्वादेनैव किमिति कालो नातिवाह्यत इत्याहएष स्वपरगृहसंचारी लोकोऽमुक्यमुकेन सह वर्तत इत्यादि परोपहासकुशलोऽप्यतिशयेन सूक्ष्मेङ्गितज्ञोऽपि । अपिशब्दः समुच्चये । सूक्ष्मेङ्गितज्ञोऽपि यदि मनसि धृत्वा तिष्ठति तदा कः शङ्कते । असौ परोपहासचतुरोऽपीति तात्पर्यम् । असत्समुच्चयोऽलंकारः । यथा राज्ञः श्रीहर्षदेवस्य—‘दुलहजणाणुराओ लज्जा गरुई परव्यसो अप्पा । पिअसहि विसमं पेम्मं मरणं सरणं णवर एकम् ॥'
१. 'सललितां' इति शृङ्गारदीपिका. २. 'दुर्लभजनानुरागो लजा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥' इति च्छाया.
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95