Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 57
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ५१ त्वमस्माकमप्रे परं मानस्य वार्तामेव करोषि तत्संनिधी पुनरन्यैव संपयस इति स खीभिः काचिदुपालब्धा स्वदोषं परिहरति न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६४ ॥ अहं किं करोमि समस्तान्येव ममाङ्गानि लोचनतां गच्छन्ति श्रवणतामथवेति न जाने । क्व सति । प्रिये संमुखायाते सति । न परं तथा, अभिमतालापं जल्पति च । तमभिमुखमागच्छन्तमुत्कण्ठया पश्यन्त्यास्तत्पेशलालापानाकर्णयन्त्याश्च ममेन्द्रियान्तराणि स्वव्यापारं परिहरन्तीति तात्पर्यम् । अङ्गशब्दोऽत्रेन्द्रियार्थः । अन्तरङ्गमित्यत्रापि दृष्टत्वात् । उत्तरसंशययथासंख्यान्यलंकाराः । ललितं नाम सात्त्विको नायकगुणः । यदुक्तम्- 'शोभा विलासो माधुर्ये गाम्भीर्ये स्थैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ यथा - 'लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारमनोहरेण । किं वा ममैव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत ता. पम् ॥' भावप्रगल्भा नायिका ॥ अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् । स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥ ६९ ॥ इति प्रिये ष्टच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् । न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥ ६६ ॥ (युग्मम्) अन्तर्निरुद्धबाष्पगद्गदं यथा भवत्येवं वधूर्न किंचिदेवोत्तरं यदवोचत्तेनैव तयास्य प्रियस्य कियन्न स्वदुःखं वर्णितम् । अपि तु भूयः । किंविशिष्टा सती जगाद, बहुदिवसोपचितेन मानेन विह्वला । क्व सति । सापराधे दयिते इति पर्यनुयुञ्जाने सति । इति किम् । इयं दुर्बला शरीरलता गुरुतरचिन्ताया दुर्वहत्वेन यद्वैचित्यं तेन निश्चला निरीक्ष्यमाणैव सती किमिति भयमुत्पादयति । काश्यॆन निश्चेष्टतया चामङ्गलचिन्तां प्रणिददातीत्यर्थः । विशेषेण दृश्यमानैव साध्वसं करोति दूरात्पुनराकृत्यविसंवादेन पूर्ववत्स्वस्थावस्थैव प्रतिभासते । यत आभरण निरादरतया स्वभावरामणोयका । तथा च प्राग्भारे(?)णानतिस्तन्मात्रं भूषणं यस्याः सा तथा । 'अङ्गानामतितानवं कुत इदं' इत्यादिश्लोकवदत्रापि संविधानम् || काचिहूती प्रणयापमानितं नायकं संबोधयति— विरहविषमः कामो वामस्तनूकुरुते तनुं दिवसगणनादेशश्चायं व्यपेतघृणो यमः । १. 'कामं तनुं कुरुते' इति शृङ्गारदीपिका. २. 'दक्षः स्वैरं' इति शृङ्गारदीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95