Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
५५
चने मुद्रयित्वा स्थितः । किं विशिष्ट इव। कैतवेन कुशेशयकिंजल्क दूषितदृष्टिरिव । अथ सा मुग्धा नायमधरक्षतप्रकाशापहवार्थमभिनयं करोति किं तु मत्प्रहारदूषितदृष्टित्वेन व्यथित एवेति या भ्रान्तिस्तया । अथवाभिनयं जानाति परं प्रेम्णः कुटिलस्वरूपत्वालुण्ठनार्थे या धूर्तता तया मुकुलिताननमृगाङ्कं यथा भवत्येवं वदनमारुतं निश्चला सती तस्य लोचनयोर्ददती तेन प्रणामोपायं विनैव सिद्धसमीहितेन वारंवारं चुम्बिता । भ्रान्तिपक्षे प्रियतमस्यापराधग्रहणं तावद्दूरत एवास्ताम्, प्रत्युत प्रहरणोकृतपङ्कजकिंजल्ककल्कदूषितदृष्टिरिति स्वयमपराधिनी जाता। अतः कुम्मलितानने त्यनेनानुल्बणमुखमारु तवितरणप्रयत्नः । अन्यथा चुम्बनार्थमभियुक्ता कोपेन पराङ्मुखी भवति । मौग्ध्यमप्यतस्मिंस्तदिति प्रत्यय एव । न तु वयोमौग्ध्यम् । धूर्ततयेत्यनुपपन्नत्वात् । धूर्ततापेक्षया च स्थितेत्यत्र प्रियप्रत्यासत्तिजनितेन त(हर्षातिरेकेणापराधविस्मरणं हेतुः । अत एव प्रणत्युपायं विनैव तेन चुम्बिता । अत्र केचिद्वायुपदेन जुगुप्साश्लीलमिति दोषमाचक्षते । तर्यादि कीरदेशे कुङ्मलिताननेन्दुपदसंनिधावपि कमलपरिमलोद्गारिणो मुखमारुतस्य प्रतीतिर्न भवति भवति चालीलप्रतीतिस्तदा वाग्देवतादेश इति व्यवसितव्य एवासौ । किं तु ह्लादैकमयीवरलब्धप्रसादौ काव्यप्रकाशकारी प्रायेण दोषदृष्टी येनैवंविधेष्वपि परमार्थसहृदयानन्दमन्त्रे(प्रदे)षु सरसकविसंदर्भेषु दोषमेव साक्षादकुरुताम् । उक्तं च भट्टवार्तिके - 'न चाप्यतीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते ॥' इति ॥
काचित्सखी को निर्धूतभर्तृकाया नायिकायाः पश्चात्तापमपरस्याः प्रतिपादयति-स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं
न सखि चपलप्रेम्णा कार्य पुनर्दयितेन मे ।
इति सरभसं मानावेशादुदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या निरन्तरमीक्षिता ॥ ७३ ॥
1
तथा कुरङ्गलोचनया गतवतो रमणस्य पदवी निरन्तरं निर्वणिता । किं कृत्वा । इत्यमुना प्रकारेणापर्यालोचिताध्यवसितत्वेन सरभसं यथा भवत्येवं मानावेशवशाद्वचनमुचार्य । इति कथम् । हे सखि, संततचिन्ताप्राग्भारण हृदयं मे विदीर्यताम् । स्वेच्छया मन्मथस्तनुं दुर्बलां करोतु । क्षणिकप्रेम्णा प्रियेण न किंचित्प्रयोजनम् । धृत्यौत्सुक्ये व्यभिचारिभावौ ॥
1
काचित्कान्तैकान्तवृत्तान्तं सख्याः कथयतिगौढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं
शय्या संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
१. 'कोपाटोपात्' इति शृङ्गारदीपिका. २. 'सशङ्कितं' इति शृङ्गारदीपिका. ३. 'पश्याश्लेष' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95