Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५८॥ यथा यथा मौग्ध्यमपगतं तथा तथा प्रियसंगमबाहुल्येनोपलब्धे प्रेम्णि आस्वादाभिज्ञा संवृत्ता सती इत्थममुना प्रकारेण तरुणी पश्चात्तापं बिभर्ति। किं कुर्वती । इति स्वमेव नववधूचेष्टितं चिन्तयन्ती । इति किम् । मया मन्दभाग्यया किमिति न प्राणेश्वरः कण्ठे आलिङ्गितः । तस्मिन्परिरब्धुमुद्यते मया भुजाभ्यां निजमुरः किं पिहितमित्यर्थः । अस्मिश्चुम्बति सति वदनविनतिः किमिति मया कृता । प्रतिचुम्बनं किमिति नारब्धमित्यर्थः । किमिति न दृष्टः । सततं नीरङ्गीलम्बनव्यग्रया सम्यकदाचिदपि स्फारीकृतलो. चनया नावलोकित इत्यर्थः । नोक्तः कस्मात् । तस्मिन्सविलासमालपति सति प्रत्युत्तरं किं न दत्तम् । अवनतवदनया स्थितमेवेत्यर्थः । तारुण्ये संगमसुखमनुभवन्ती मौग्ध्येन तदाहं वञ्चितेति चिन्तयतीति भावः ॥ काचिदपमानितानुनया पश्चात्तापयुक्ता यदि त्वं तेन विना स्थातुं न शक्नोषि तत्किमिति मानं करोषीति सख्या निर्भत्सिता तां प्रत्याहश्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्ग समन्ता दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागत्य कण्ठपहनिकटपदस्थायिनि प्राणनाथे भन्ना मानस्य चिन्ता भवति मयि पुनर्वञमय्यां कदाचित् ॥१९॥ नाहं सर्वदैव मानं करोमि किंत्वत्यन्तकठिनायां मयि निन्द्या मानचिन्ता कदाचिदुत्पद्यते । क्व सति। तस्मिन्प्राणेश्वर प्रसादनतात्पर्येणागत्य कपोलचुम्बनप्रत्यासन्नस्थानस्थायिन्यपि । कोऽर्थः । यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नाहं मानं करोमि । तस्मिन्प्रा. णेश्वरे कीदृशे । यस्य नामाप्याकर्ण्य व्यक्तसान्द्ररोमाञ्चं ममाझं सर्वतो जायते । यस्य वकचन्द्रमसमवलोक्येदं वपुरुद्भिन्नस्वेदबिन्दुजालतया चन्द्रकान्तमणिसदृशं भवति । द. यितमुखं दृष्ट्वा स्विद्यामीति पर्यवसितत्वाद्भिन्नकर्टकता नाशङ्कनीया । अयमपि श्लोकः प्रक्षेपक इति संभाव्यते । परं विरुद्धो नास्ति । एवंविधा अन्येऽप्यन्तरान्तरा द्वित्राः। सन्ति । तेऽप्यविरुद्धा इति व्याख्यास्यन्ते ॥ लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्रे कजलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ६० ॥ १. नोरङ्गी मुखाच्छादनवस्त्रम्. २. 'यत्समन्तात्' इति शृङ्गारदीपिका. ३. 'मम' इति शृङ्गारदीपिका. ४. 'कथंचित्' इति शृङ्गारदीपिका . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95