Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् 'पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥' नूनं शाकंभरीखनिकर्मकर एष महानुभावः कविः ॥ नूयमियं श्लोककन्था कुताकिकच्छान्दसवैयाकरणैर्मथिता । यदुक्तमुपाध्यायेन - 'संपकैंण कुतर्काणां छन्दोव्याकरणस्पृशाम् । उड्डीयते रसः खण्डैः पावकेनेव पारदः' ॥ बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोsस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि । तत्किं रोदिषि गद्देन वचसा कस्याग्रतो रुद्यते नवेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५७ ॥ कश्चिन्मानिनीमनुनेतुं संबोधयति - हे मुग्धे । नायिका वक्ति — हे नाथ । नायक:विमुञ्च मानिनि रुषम् । नायिका - रोषान्मया किं कृतम् । अपि तु न किमपि । कोऽभिप्रायः - न ते किंचिद्विरुद्धमुक्तम् । न च ताडनादिकं कृतम् । नापि तत्र गच्छन्वारितोऽसि । स्वशरीरेण दुरवस्थामनुभवन्ती तिष्ठामि । नायक:- - रोषात्त्वया किमपि न कृतमित्येव न परमस्मासु खेदः कृतः । नायिका - खेदस्तस्योपपद्यते योऽपराधी भ वति । भवांस्तु न मेऽपराध्यति । विपरीतलक्षणया विधिरत्र । सर्वेऽपराधा मयि । मया यत्त्वमुपेक्षितस्तेनैवमुच्छृङ्खलो जातः । नायकः - उक्तेरभिप्रायमजानन्निव, तल्कि रोदिषि गद्गदेन वचसा । नायिका - कस्याग्रतो रुद्यते । त्वमन्यासक्तो न मे कष्टं जानासि । त्वां च विहाय ममान्या गतिर्नास्तीति भावः । नायकः — पूर्ववत् । नन्वेतन्ममाग्रतो रुद्यते । नायिका - का तवास्मि । उदासीनो मयि सांप्रतं भवानित्यर्थः । नायकः -वलभा त्वं मे । नायिका – नास्मीत्यतो रुद्यते । कोऽर्थः - दयिता नास्मि योषित्संबन्धः पुनरस्त्येव । प्रश्नोत्तरमलंकारः । न तु वक्रोक्तिः । शब्दश्लेषकाक्वोरभावात् । यत्कचि• दर्थान्तरमत्र प्रतीयते तद्व्यङ्गयमेव । वक्रोक्तेरुदाहरणं चैतत् - 'किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वदनुमानत एव सत्यमित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' 'गुरुपरतन्त्रतया बत दूरतरं देशमुयतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥' धीराधीरा मध्या नायिका । 'न मेऽपराध्यति भवान्सर्वेऽपराधा मयि' इत्यनेन धैर्यम् ।' चापल्यरहिता धैर्य हद्वृत्तिरविकत्थना' ॥ श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्रुम्बत्यस्मिन्वदनविनतिः किं कृता किं न दृष्टः । १. शाकंभरी राजपूताना देशान्तर्वती 'सांभर' इति प्रसिद्धो लवणाकरः. For Private and Personal Use Only ४७

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95