Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। रम्यं स्वादु सुगन्धि स्वयं करे पतितम् । फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मधे. दानीम् ॥ : अत्रान्तरे बहवः प्रक्षेपकश्लोकाः सन्ति । तत्र विचार:-यः कश्चित्स्वाश्लोकान्रचयित्वा परकाव्ये प्रक्षिपति स तावन्न प्रसिद्धये । स्वनामलेखनाभावात् । तस्मादेवं संभाव्यते-यद्यस्मिन्सार्वपार्षदे काव्ये मम श्लोका अर्हन्ति तदाहं विशिष्टः कविरिति प्रक्षेपककवेराशयः । तेऽपि सन्तु यथा विसदृशनीरलहरीलेह्यस्वराणां (2) गायनानामोडवप्रयोगेनातोद्यलास्यानु विधानशालिनि रक्तिनिर्भरगीतलास्यमानमनसां प्रविष्टानामातोचकराणां ततसुषिरघनावनद्धात्मनि वादित्रे मन्दमुन्मुद्रितनिनादे नायिकानां नानाविधदृष्टिवृष्टिभिराप्यायितविदग्धचेतसां ललितहस्तकचारीचमत्कारेणाश्चितभ्रमितनमितकुञ्चितस्तिमितक्षिप्तक्षुभितावयवानां कुचकलशनितम्बडम्बरान्तरतरङ्गितोद्वलितललितवलिभागानां क्वचिद्विस्रब्धमिव क्वचित्त्वरितत्वरितमिव क्वचिद्भीतभीतमिव क्वचित्सुप्तसुप्तमिव क्वचिदुनिद्रितोनिद्रितमिव सान्द्रमुखरागमनोभवमनोज्ञं नृत्यन्तीनामन्तरेऽटचेटकास्तथानिर्वचनीयचमत्काराणाममरुकश्लोकानां मध्ये छन्दोमात्रमेलनेन हासोत्पादकतया च प्रक्षेपकश्लोकाः । ते यथा 'मन्दं मुद्रितपांसवः परिपतज्झांकारिझञ्झामरु द्वेगव्यस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥' अमी झञ्झानिलाः शिरोर्तिमुत्पादयन्ति विदुषाम् ॥ 'इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥' जीवितहारिणी शाकिनी॥ 'सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनपुरं च । क्षिप्तं भृशं कुपितया मृगनेत्रया यत्सौभाग्यचिह्नमिव मूनि पदं विरेजे ।' इयं सा भद्रदेशिनां सर्वस्वं सौभाग्यस्योपरिमन्जरी (2)॥ 'श्रुत्वाकस्मानिशीथे नवधनरसितं विश्वथाङ्गं पतन्त्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटापातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥' वियोगमर्म निगूढं दुःखमेवोपवर्णयन्ति । तद्विपर्ययादियं मिथ्यामरणनिःसृताया योषितो मांधारिका (१)॥ १. इतः प्रभृति प्रक्षिप्तं श्लोकपञ्चकं शृङ्गारदीपिकायामपि नास्ति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95