Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
काव्यमाला । पि नास्तीत्यर्थः । परगृहभङ्गव्यसनिनां कर्णेजपानां वचनैरिममिति त्वद्वैमुख्येनैवविधदः, खस्थं जनमतिविधेयं मां दुःखं प्रापयितुं न ते युक्तम् । अथवा अलमनेन कियन्मे जीवितेन प्रयोजनम् । तस्मात्सत्यं कथय हे अचेतने, किमिदं त्वया ममोपरि विनिश्चित किं पर्याप्तम् । हे प्रिये, यत्किंचिदभिवाञ्छितं तन्मे विधाय सुखं स्थीयताम् । तवैव सुखार्थमहमकारणोत्पन्नं मानं त्याजयामि । ममाभावे (?) चेत्तव सुखं तत्कि मानत्या. जनेनेत्यर्थः । युक्तमित्यत्र 'नपुंसके भावे क्तः । तेन 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसां. प्रतम्' इत्यादिवत् 'प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत्प्रकाशते' इति न्यायेनेमं जनमित्यत्र न प्रथमा । तत्र तु सांप्रतमित्यत्र द्वितीया न युज्यत इति कर्मविवक्षा ॥
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया । आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं
मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ५४॥ कस्मिंश्चिद्रामे यामिन्यामध्वगेन मुक्ताश्रुणा तेन प्रकारेण तत्कालोचितं किंचिदुत्कलिकया गीतम् , यथा 'ककुभोत्था विभाषैव निर्दिष्टा याष्टिकेन या। धैवतांसग्रहन्यासानहीना मन्द्रमध्यभाक् । समस्वरा च संपूर्णा करुणे मधुकर्यसौ ॥' एवंप्रायम् । किं विशिष्टम् । विरहक्लेशसूचकम् । अथ वात्मशब्देन जीवात्मा । अत एवोत्तरार्धम् 'आस्तां जीवितहारिणः' इत्यादि । कीदृशेन। वारिभरालसजलधररसितोद्विग्नेन । अत्र लाक्षणिकेनालसशब्देन गर्भवेदनाकान्तयुवतिस्तनितवद्गर्जितस्य निःसीमगम्भीरता व्यज्यते । निशीथे हि निवातनिर्भरं वर्षन्तो बलाहकास्तथैव गर्जन्ति, भवन्ति च वराकाणां वियोगिनामुद्वेजनादुर्ललिताः । अत एवोक्तमुपाध्यायेन–'या क्रिया मान्मथैर्बाणैः शल्यितेषु। वियोगिषु । जलं ददति यत्तस्यै तेनामी जलदाः स्मृताः ॥' तथा कथं गीतमित्याहआस्तां तावत्प्राणहारिण: प्रवासनानो ग्रहणं यावत्प्रेमवर्माभिज्ञेन लोकेनोभयरूपस्यापि मानस्य जलाजलिर्दत्तः । लक्षणया लोकान्तरं गतो मान इत्यर्थः। 'त्वं तावदास्व दूर भृत्यावयवोऽपि ते निहन्त्यहितान्' इत्यादिवदत्र विषमालंकारः ॥ कश्चिद्वियोगी मत्तनायिकायाः प्रणयमानमनुस्मरतिस्वं दृष्ट्वा करजक्षतं मधुमदक्षीबाविचार्येयॆया
गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया । प्रत्यावृत्तमुखी सवाष्पनयना मां मुञ्च मुश्चेति सा
कोपप्रस्फुरिताधरा यदवदत्तत्केन विस्मार्यते ॥ ५५ ॥ १. 'सा मुञ्च मुश्चेति मां रोष' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95