Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
मुग्धे दुष्करमेतदित्यतितमामुद्दामहासं बला
दाश्लिष्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४६॥ सापराधे प्रेयसि यद्यस्मद्गृहमागच्छसि तदामुकशपथस्तवेति निवारितेऽप्यमकसखीवेषं कृत्वा प्राप्ते सति मया निजवयस्याभ्रमेण परिरभ्य प्रियसंगमस्पृहया स दुरात्मा योवं परिरभ्यत इत्यादिकमपि रहस्यमुक्तम् । अथ सिद्धसमीहितेन तेन शठेन मुग्धे यदेतत्वयोक्तं तन्मम दुष्करमित्युक्त्वा निरतिशयेन सशब्दहासं यथा भवत्येवं हठादालिङ्गयाद्य रजनीमुखसमये वञ्चितास्मि । तदाहं तमज्ञास्यम् । भवादृशीनां सखीनामेव भ्रमेण म. टास्मीति भावः । अत्र कामुकस्य हठाश्लेष उद्दामहासोपलम्भेन नायिकाया अपसरणं सूचयति । अन्यथा सखीभ्रमेण स्वयं कृताश्लेषायाः कीदृशं हठालिङ्गनम् । मुग्धे इत्यत्र पत्यौ सखीमोहः, रहस्यमदितमित्यनेन काममोहश्च । रसान्तरं प्रसादनोपायः । यथा'अभिव्यक्तालीकः सकलविफलोपायविभवश्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् । इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमाश्लिष्यति वधूम् ॥' समयाभियोगश्चायं नायकस्य । यदुक्तम्-'प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुखेन सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति' इति । प्रदोषागमे छलितेत्युचितम् । अन्यस्यापि यस्य भतादिच्छलनं भवति तस्य प्रदोषे प्रायः श्रूयते । अद्य प्रदोषागमे इत्यत्राद्यशब्दो विचार्यते-यदैव सा छलिता तदेव नायकः संप्रतिपत्तिमात्र कृत्वा गत इति तावन्न घटते । यतो मानिनी सखीवेषप्रायोपायकष्टप्रसादिता सर्वा शर्वरी लालनीया भवति । अगते च तस्मिन्प्रदोषसमयानन्तरं कस्याग्रे कथं वा स्ववृत्तान्तं निवेदयति । न चैवंविधानि वाक्यानि मनोगतानि घटन्ते । ततश्चाद्यशब्दः कथमुपपद्यते । अत्रोच्यते-लोकोक्तिमात्रमेतत् । यथा व्यतीतरात्रिवृत्तान्तेऽप्युपवर्ण्यमाने अद्य रात्री मया स्वप्नो दृष्ट इति व्यवह्रियते, तथा अद्य प्रदोषागमे इत्यत्रापि ॥ कश्चिद्वियोगी प्रियतमामानवृत्तान्तमनुस्मरतिआशङ्कय प्रणतिं पटान्तपिहितौ पादौ करोत्यादरा
द्वयाजेनागतमावृणोति हसितं न स्पष्टमुट्ठीक्षते । मय्यालापवति प्रतीपर्वचनं सख्या सहाभाषते
तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४७ ॥ तन्व्यास्तावदास्तां निरन्तरमनुवृत्तिपरता, यावन्मानोऽपि रमणीयोदयः । सर्वास्वव स्थासु स्पृहणीयेति भावः । कथमित्याह-आशयेत्यादि । एष प्रणामं करिष्यतीति च याविशेषेरनुमीय प्रयत्नाद्वस्त्राञ्चलावगुण्ठितौ स्वचरणौ विदधाति । न त्वन्यतो नयति । कोपस्य स्वल्पत्वात् । पूर्वानुभूतस्य कस्यचिनर्मण उल्लेखेनाकस्मादागतं हास्यं किाम
१. 'दुष्कर एष इत्यतितरामुक्त्वा सहासं बलादालिङ्गय' इति शृङ्गारदीपिका. २. 'वचना सख्या समं भाषते' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95