Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ काव्यमाला। किं तत्समयोचितं न कृतं त्वया । अपि तु सर्व कृतम् । अत एव मृत्युभयं परित्यक्तं मया । अतःपरं निःसंशयं जीविष्यामीत्यर्थः । इदानीं गम्यताम् । यतः कृच्छमास्ते भवान् । यच्चेदानी मुद्रसप्रायं पथ्यं करिष्यामि तदाकर्णयिष्यसि । कोऽर्थः-पथ्यं श्रति. विषयमेवास्तु, न तु दृष्टिविषयम् । दृष्टिविषये किल भवदीयकार्यसंकोचक्लेशकारिणी वेला लगिष्यति । अथ प्रातःप्रातरुपागतोऽसि, न तु रात्रौ । तदा हि कदाचित्संगमावकाशोऽपि संभवति । अन्यच्चान्याङ्गनासङ्गशंसीन्यधरक्षतादीन्यपि प्रातर्दृश्यन्ते । तानि चाक्षिदुःखमुत्पादयन्ति । अत एव जनिता निर्निद्रता चक्षुषोः । अन्यथा विरहवेदनाजागरितसकलरात्रेर्दिवा कदाचिन्निद्रापि मुहूर्त घटते । कचाकर्षणताद्यकरणादक्षमाया मम बहुमानो व्यपगमितः । तुच्छता तु प्रकर्षण जनिता । अथ वा किं तद्यत्त्वया विरुद्ध न कृतम् । अत एव मया मरणे निश्चयः कृतः । तदितः स्थानाद्गम्यताम् । यतोऽत्र दुःखं तिष्ठसि । तत्रैव ते सुखमित्यर्थः । यच्चेदानी प्राणपरित्यागलक्षणमुचितं करिष्यामि तदवश्यं श्रोष्यसि । न तु कर्णपिधानादिना शोकावेगं सूचयिष्यसि । तवैव समीहितत्वात् । कर्तास्मीत्यत्र लुटि उत्तमैकवचनम् । मन्दाशब्दशक्त्युद्भव उपमालंकारः । यथा सरागा वराकीति संभाव्यते तथा त्वयाहं संभावितति प्रतीतेः । यदुक्तम्-'ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदानीं श्लेषस्य विषयोऽपहृत एव स्यात् । नापहृत इत्याह-'आक्षिप्त एवालंकार: शब्दशक्त्या प्रकाशते । य. स्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ कस्यांचिदनुरक्तः कश्चित्स्वयं सवितर्कमनुसंधत्ते । विस्रम्भपात्रस्य वा प्रतिविधानप्रत्याशया कस्याप्यग्रे निवेदयति सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ३४ ॥ सा अनिर्वचनीया मुग्धा, वयं च तदप्राप्तिपर्याकुलतया अप्रगल्भमनसः । अथ च यत्रव बाल्यं तत्रैवाप्रगल्भमनस्कत्वं युज्यते । सा स्त्री, वयं च तां विना स्थातुं न शक्नुम इति गतधैर्याः । अथ च यत्रैव स्त्रीत्वं तत्रैव कातरत्वमुचितं भवति । सा पीनं चोन्नतिमच्च एवंविधं स्तनयुगलं बिभर्ति, वयं च तद्गाढालिङ्गनमप्राप्नवन्तः सखेदाः । अथ च या एव गुरुपदार्थभार वहति स एव सखेदो दृश्यते । 'भरं' इति पाठे स्तनभार बिभता त्यर्थः । अत्र पाठे धरभरमित्यनुप्रासालंकारः । भारश्च साक्षादुक्तः । पूर्वत्र तु पाठ पा नोन्नतिमत्त्वेन भार आक्षिप्यत इति । सा महता नितम्बभरेणाक्रान्ता, वयं च ता तत्वात ग्भारलीलालसगामिनी स्मरन्तो जडिम्ना गन्तुं न क्षमाः । अथ च य एव महता भारत णाक्रान्तो भवति स एवं गन्तुं न शक्नोति। एवं सत्यन्यजनावलम्बिभिर्दोषैर्वयमसाठवा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95