Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
काव्यमाला।
चेतसि तनु: तनुःस्वे (?) कृशेत्यर्थः । तस्मिन्दृष्टे मानस्य कथं निर्वाहो भविष्यति । कोऽर्थः-मया भ्रभङ्गादीनि दुष्कराणि कृतानि, परंतु न मानो नियंढः । तस्मात परं मानार्थे यत्नमपि न करिष्यामीति प्रीतिप्रकर्षों भविष्यत्या व्यज्यते । उत्तरयत्ना पालंकारौ ॥
सा पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमानवलनावक्रोक्तिसंसूचनम् । खच्छरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः ॥ २९॥ सा बाला भर्तुळलीकप्रस्तावे केवलं रोदित्येव। कीदृशी। लम्बितपक्ष्मलोचनेन्दोवरा। कैर्विशिष्टा। अश्रुभिः । कथंभूतैः । निर्मलकपोलयोर्यन्मूलं नेत्रयोरधोभागस्तत्र क्षरितैः । पुनः किंविशिष्टैः । लुठल्लोलोदकैः निमेषार्धबद्धबिन्दुजालतया लुठत्पतनशीलत्वेन लोलमुदकं येषां तैः । पुनः कीदृशैः । नैरन्तर्येण प्रथममेवोन्मृष्टकजलत्वात्स्वच्छैः । अथवा ईर्ष्यामानेऽप्यनुपन्यस्तवक्रोक्त्यादेर्नायिकायाः स्वच्छतानुमापकैः । उपचारेणाश्रुभिरपि स्वच्छैः । ननु किमिति रोदित्येवमुलुण्ठनादिकमेव किमिति नारभत इत्याहनो जानाति । किं तत् । सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् सहेलं भ्रूक्षेपादिभिरङ्गवलनादिभिरनृजभणितिभिश्चापराधस्य सम्यगनमानम् । तदेव किमिति न वेत्तीत्याहसख्योपदेशं विना सख्येनोपदेशः अर्थात्सख्यास्तं विना । अत्र तावत्कविः प्रायस्तटस्थो वक्ता । सेति पदं च दूतीदूतप्रभृतिकस्य रतिवासनालिङ्गितान्तःकरणस्य वा वक्तुयुज्यते, न तु तटस्थस्य । तस्मात् ‘कान्तस्य प्रथमेऽपराधसमये' इति पाठो युक्तः । अथानुरक्त एव वक्तास्तु । मैवम् । पत्युरित्यनुपपन्नत्वात् ॥ काचिदन्यनायिकानुरक्तं नायकं प्रति ब्रूतेभवतु विदितं व्यर्थालापरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ ३० ॥ हे प्रिय, भवतु अनुनयोपक्रमैरालापैरास्ताम् । कोऽर्थः-ज्ञातं तव स्वरूपम् । प्रसाद नप्रवृत्तस्यापि सर्वाकारमन्यासक्तिशंसिन्येव च्छाया बाह्याकारेण दाक्षिण्यमात्रमेतत् । अत एव व्यर्थालापैः पूर्यताम् । त्वदधीनं मे जीवितमित्यादीनामालापानामर्थस्य विगतत्वाव्य थता । तस्माद्यत्रैव प्रतिभासते तत्रैव गम्यताम् । नहि प्रियस्य समीहितप्रतिबन्धः १७
१. 'प्राणेशप्रणयापराधसमये' इति शृङ्गारदीपिका. २. 'लोलालकैः' इति भारत दीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95