Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir २६ I प्रायः । तत्प्रियतमास्तनविलेपनलाञ्छितस्य वक्षसो रक्षणं तव महत्प्रयोजनम्, चरणानतिव्यतिकरस्तु मिथ्यारम्भ इति । यद्यपि तस्या इति पदस्य स्तनयुगपदेन सह संबन्धस्तथापि वक्षःपदेन सह संबन्धविधायको भिन्नविभक्तिर्निदेश उचितः । तस्यात आधीनं तव हृदयमिति प्रतीतेः । आश्लिष्टापि मानं तत्याज न वेत्याह- तस्याश्च परिरम्भसुखवशात्तद्विलेपनं विस्मृतम् । चशब्दस्तुल्यकालताप्रतिपादनार्थः । यदैवालिङ्गिता तदैव कोपकारणं विस्मृतवतीति प्रीतिप्रकर्ष: । अत्र कोपस्य शान्तिरित्यत्र भावशान्तिः । ईर्ष्यामानात्मकविप्रलम्भारम्भपर्यवसितः संभोगः । नायको वक्ता पूर्ववत् । पिहितमलंकारः । यदुक्तम् —'यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं विदध्यादाविर्भूतमपि तत्पिहितम् ॥' 'व्यक्तागा वितथो धृष्टः' इत्यनेन धृष्टो नायकः । माननर्म चैतत् । यथा—'तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसति मा गाः कामिनां मण्डन श्रीव्रजति हि सफलत्वं वल्लभालोकनेन ॥ त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिका संस्टशि । शय्योपान्तनिविष्टसस्मित सखीने त्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २७॥ अलीकवचनानामुपन्यासो यत्र तद्यथा भवत्येवं वयस्याजनः शनकैर्निर्गतः । किंविशिष्टः । शय्योपान्तेत्यादि । कान्तशय्योपान्ते [निविष्टा ] या सखी नायिका तस्या नेत्रोत्सवेन प्रमुदितः । क्व सति । कञ्चुलिकाया वीटिकासंस्पृशि प्रियतमे इत्यभिधायिनि सति । इतीति किम् । हे विह्वलाक्षि, त्व कबुलिकामन्तरेणैव रमणीयां शोभां दधासि । अत्र मदनालसलोचनां दृष्ट्वा ग्राम्येतरभङ्गीभणितिप्रक्रमेण रिरंसुः कामी मुग्धाक्षीति संबुबुधे । सत्यां कबुलिकायामङ्गसौन्दर्यस्य प्रत्युत पिधानं भवतीति विनैवेत्येवकारस्य तात्पर्यम् । कचुलिका चेयं दाक्षिणात्यचोलिकारूपैव । तस्या एव ग्रथनपदार्थे वीटिकाव्यपदेशः । अन्यत्र कंपातनिकेत्येवमादयः । भवतीष्वप्युपविष्टास्वयमेवंविधं चेष्टत इति सलजकृत स्मिताया नायिकायाः सखीजनं प्रत्यवलोकनमात्रमेव नेत्रोत्सवः । ननु स्पर्शसुखेन नयननिमीलनं नायिकानां प्रसिद्धम् । यदाह कालिदासः - 'मधु द्विरेफः कुसुमैकपात्रे पपी प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥' इत्यादिषु तिर्यक्संभोगेऽपि तदेव श्लाघ्यम् । तत्कथमत्र विकस्वरदृष्टिता व्याख्यायते । अत्रोच्यते—नहि सर्वासामेव नायिकानां स्पर्शसुखेन लोचननिमीलनं स्पृह - णीयम् । प्रौढनायिकानामेवोपवर्ण्यमानत्वात् । ता हि सुरतारम्भ एवाचेतना भवन्ति । इयं च मध्या नायिका । मुग्धाक्षीति मदनालसलोचनेति कान्तं प्रत्यनभियोगित्वात् । 1 १. 'वेणिका' इति शृङ्गारदीपिका. २. 'वधू' इति शृङ्गारदीपिका. ३. 'कस' 'तनी' इति तद्वाचकी हिन्दीभाषाशब्दी. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95