Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ काव्यमाला। कस्मात्त्वमद्य विमना इव लक्ष्यसे इत्यादि केनचित्पृष्टः कश्चिन्नायकः कान्ताप्रणयमा. नचेष्टामाचष्टे पश्यामो मयि किं प्रपद्यत इति स्थैर्य मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः। इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याज हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२४॥ पश्यामस्तावदियं मयि स्वयं कीदृशीमालपनादिप्रतिपत्तिमुपक्रमत इत्यपेक्षया मया निर्व्यापारेण स्थितम् । एष निश्चयेन कितवः कस्मान्मां न भाषत इति मनसि विभाव्य तया कोप: स्वीकृतः । इत्यमुना प्रकारेणान्योन्यस्य या विलक्षा दृष्टिस्तत्र चतुरं यत्कोपप्रसादरूपाया अवस्थाया मध्यं तस्मिन्मया संप्रतिपत्तिप्रवृत्तेन किमपि मिथ्यैवोद्भाव्य हसितम् । तया पुनकृतिहरो बाष्पस्त्यक्तः । धृतिं हृतवान् । 'पचादिभ्यश्च' इत्यच् । अधृति सूचितवानित्यर्थः । नहि बाष्पः प्रथममुत्पद्य धृतिं जहार । अपि त्वधृतिसमनन्तरमुत्पन्नो नायकस्य धृति हृतवानिति चेत्, मैवम् । मानिनीमानस्य प्रत्युताश्रुमोक्षान्तत्वात्। 'पश्यामः' इत्यत्र ‘पश्येयम्' इति पाठो युक्तः । मयीत्येकवचनव्यपदेशात् । 'किं मां नालपतीति' इत्यत्रेतिशब्दोऽस्थाननिवेशितः । शठशब्दानन्तरं प्रयोजनीयत्वात् । 'अन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे' इत्यत्रावस्थान्तरं चतुरताधिकरणं भवितुमशक्तं सत्स्वसंबद्धं मिथुनं लक्षयति । तां विलक्षां दृष्टिं तदेवावस्थान्तरं जानाति न पुनरन्यः कोऽपीति दृष्टेरनिर्वचनीयत्वं चात्र प्रयोजनम् । प्रणयबहुमानलालिता मुग्धा नायिका ॥ कस्यापि विस्रम्भसंभावितस्याग्रे नायको वक्तिपरिम्लाने माने मुखशशिनि तस्याः करधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे । तैया पक्ष्मप्रान्तध्वजपुटनिरुद्धेन सहसा प्रसादो बाष्पेण स्तनतटविशीर्णेन कथितः ॥ २५॥ तया प्रसादः कथितः । अनुमानेन प्रतिपादित इत्यर्थः । केन । बाष्पेण । किंविशिप्टेन । पक्ष्मप्रान्तध्वजपुटनिरुद्धेन । पक्ष्मप्रान्तावेव ध्वजौ तयोः पुटं तत्र निरुद्धेन । अव्ययानामनेकार्थत्वानिमेषमात्रं रुद्धेन । न तु निःशेषतो रुद्धेन । अत एव रोद्धमशक्यत्वा त्सहसा स्तनतटविशीर्णेन । अयमभिप्रायः-हृदये द्रुताया नायिकायास्तावदश्रूद्गमा जातः । पश्चात्तया संवरणार्थ रोद्धमारब्धः। अथ दर्वहतयासौ बलात्कारेण स्तनयारुपार पपात । पक्ष्मप्रान्तयोर्ध्वजपुटरूपेण दैर्ध्य साधारणो धर्मः । पुटशब्दोऽश्रुनिरोधप्रयत्न १. 'मुक्तश्च बाष्पस्तया' इति शृङ्गारदीपिका. २. 'तदा पक्ष्मप्रान्तबजपुट' दात शृङ्गारदीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95