Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
काव्यमाला ।
निद्रातुमप्यत्र स्थाने निषेधति । क्व सति । प्रिये पर्यनुयुञ्जने सति । कम् । प्रियायाः परि. जनम् । कथम् । स्वैरम् । ‘मन्दस्वच्छन्दयोः स्वैरम्' इति वचनान्मन्थरमित्यर्थः । द्विकर्मकत्वेन पुनरिति पृच्छति सति । इतीति किम् । किं पुनर्विह्वलाक्षी कटिसूत्रेण निबिड - नियमितसिचयान्ता निद्रायते । अत्र गाढतरनितम्बवस्त्राञ्चलवहनाभ्यसूयागर्भो रम्भास्तम्भाभिरामोरुकाण्डस्पर्शलौल्यपर्यवसायी भणितेरुल्लेखः । इयं च साङ्गभङ्गैरलसचेष्टाविशेषैर्लम्बितपक्ष्मलोचनाञ्चला मदनमदविक्लवतामनुभवन्त्यासीत् । न पुनर्वास्तवीं निद्राम् । यदि वा मृषा सुप्तिरियम् । यदुक्तम्- - ' सापि भावजिज्ञासार्थिनी नायकस्यागमनकाले मृषा सुप्ता स्यात् । अत एव मन्दमपि प्रियस्य प्रश्नवचनमश्रौषीत् । मातः स्वप्तुमपीति मातःशब्दः स्त्रीणामुक्तिमात्रे । सूक्ष्मोऽलंकारः । यदुक्तम्- 'इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।' यथा - 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥' काच्या गाढतरेत्यादि संभोगनर्म । यथा - 'सालोए व्विअ सूरे घरिणो घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाऐ धुवइ हसन्ती हसन्तस्स ।।' एते च नर्मभेदाः । वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् । हासेनैव सशृङ्गारभयेन विहितं त्रिधा ॥ आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा । शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ॥ सर्वे सहासमित्येवं नर्माष्टादशधोदितम् ।' मातः स्वप्नुमपीत्यादिना आत्मोपक्षेपनर्म । यथा - 'मध्याहं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्थविवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वच्चित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपैराङ्मुखं ग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा
न्मा भून्म्लान इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २२॥ कयाचिन्मुग्धया प्रियतमस्तत्कालमेव पराङ्मुखं यथा भवत्येवमवज्ञातः । किं कुर्वन्नपि । चाटूनि कुर्वन्नपि लालनवाक्यानि ब्रुवाणोऽपि । तथाभूतोऽपि कस्मादवधीरितः । आवेगात् । तस्य लक्षणम् — 'आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो त्रासा त्यांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनुभयस्तम्भकम्पापसाराः ॥' अत्र सपत्नीनामत्रहणमेवाहितम् तत्कृत आवेगः । किंविशिष्टया । ग्लपितया । क्व सति । एकस्यां शय्यायां सपत्नीनामोच्चारणे सति एकस्मिन्शयने प्रस्तुतायां रतिप्रवृत्तौ विपक्षस्त्रीनामग्रह इत्येव
१. ‘सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति हसती हसतः ॥' इति च्छाया. २. 'पराङ्मुखग्लपितया' इति शृङ्गारदीपिका. ३. ‘तत्क्षणं' इति शृङ्गारदीपिका. ४. 'सुप्त' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95