Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । २३ न, अपि तु विपक्षरमणीनामग्रहे भूताविष्टस्य ग्रह इव ग्रहे । अत एव नायिकाया आवेगः । मुग्धाश्च स्तोकेऽप्युपाये कोपं परिहरन्तीति । न केवलमवधीरितः, अवधीरणहेतोस्तूष्णीं स्थितः सन्मा भून्म्लान इवेति द्रुतमेव वेगविवर्तितकंधरं यथा भवत्येवं पुनरवलोकितः । अत्रौत्सुक्यभावस्योदयः । यदुक्तम् — 'भावस्य शान्तिरुदयः संधिः शबलता तथा ।' उपायश्चात्र चाटूनि कुर्वन्नपीत्यनेन साम । यदुक्तम्- 'नरः कलासु कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥' यथास्मत्पर्वजस्य वाक्पतिराजापरनाम्रो मुजदेवस्य - 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकारकण्टकायैर्यत्खिद्यते तव पदं ननु सा व्यथा मे ।।' तूष्णीमित्यनेनोपेक्षामात्रं च । म्लान इवेत्यत्रेवकारेण म्लानसदृशोऽपि मा भूदिति प्रीत्यतिशयः । ईर्ष्यामानात्मकविप्रलम्भपूर्वको दर्शनात्मा संभोगशृङ्गारः । 'गूढविप्रियकृच्छठः' इत्यनेन शठो नायकः । यथा - ' शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्वाचक्षे घृतमधुमयत्वद्बहुवचोविषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥' मृदुकोपा मुग्धा नायिका ॥ एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो रेन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो र्भग्नो मानकलिः सेहासरभसं व्यावृत्तकण्ठग्रहः ॥ २३ ॥ दंपत्योः प्रणयमानक लहो भग्नः । किंविशिष्टः । सहासरभसं यथा भवत्येवं व्याघुटितः कण्ठाश्लेषो यत्र स तथा । अभग्ने मानकलहे कण्ठग्रहः किल निवृत्त आसीदिति हेतोव्यवृत्त इति भङ्गविशिष्टस्यैव मानकलेरिदं विशेषणम् । केवले मानकलहे कण्ठग्रहस्यानुपपन्नत्वात् । केन क्रमेण भग्न इत्याह – एकस्मिन्नित्यादि । एकस्मिञ्शयने त्वया किमित्येवं कृतमित्यादिकलहप्रश्नानामपगतान्युत्तराणि यत्र तद्वीतोत्तरं यथा भवत्येवं ताम्यतोः । उत्तरव्यय एव कथं जात इत्याह- पराङ्मुखतया । पुनः कथंभूतयोः । परस्परं चित्तस्थितेऽपि प्रसादनप्रकारे गौरवं संरक्षतोः । स्वं स्वं लाघवमाशङ्कमानयोरित्यर्थः । अथ च मानभङ्गहेतुगर्भविशेषणमाह - पुनः कीदृशयोः । स्तोकस्तोकं लोचनाचलविवर्तनेन संघटमानदृष्टयोरिति । प्रणयमानात्मकविप्रलम्भपूर्वकः स्पर्शनात्मा संभोगः । ‘एकत्रासनसंस्थितिः-' इत्यारभ्यामुं श्लोकं यावत्षट्श्लोकेषु कविर्वक्ता ॥ १. ‘अन्योन्यस्य हृदि स्थिते' इति शृङ्गारदीपिका. २. 'सहासरभसव्यावृत्तकण्ठग्रहम्' इति शृङ्गारदीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95