Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
जानातीति मनाङ्गमितग्रीवः । पुनः कीदृशः । सरोमाञ्चः । तां किंविशिष्टाम् । प्रीत्युल्लसच्चेसम। पनः कीदृशीम् । मत्कारणेनेयं वश्चितेत्यन्तनिभृतहासलसद्गण्डमण्डलाम् । यस्या ने मद्रिते सा ज्येष्ठा । तस्यामपि नायकस्य प्रीतिरस्त्येव । यतः–'दक्षिणोऽस्यां सहदयः' इति वचनात्पूर्वस्यामपि नायिकायां हृदयेन सह व्यवहरति । तस्माद्विहितक्रीडानुबन्धच्छल इति योऽयं छलशब्दः स चुम्बितनायिकापेक्षयैव नायके न पुनर्वास्तवेनैव क्रीडानुबन्धेन प्रथमा प्रथममेव संभाविता, द्वितीयस्यां च नेत्रमुद्रणाचुम्बनात्मकस्य संभावनाप्रकारस्य वैशिष्टयात्सपुलकत्वाच्च विशिष्टा प्रीतिः । नूतननायिकायां च विशिष्टप्रीतिप्रतिपादनादेव पूर्वस्यां दाक्षिण्यमात्रादुपचार एवेत्येतेन । द्वयोरपि नायिकयोः प्रियतमे इत्युक्तत्वात् । विशेषोऽलंकारः । यदुक्तम्-'यत्रान्यत्कुर्वाणो युगपत्कर्मान्तरं च कुर्वीत । कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥'
चरणपतनप्रत्याख्यानप्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्ते रुषा परुषीकृते । व्रजति रमणे निःश्वस्योच्चैः स्तनार्पितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निपातिता ॥ २० ॥ कयाचित्कलहान्तरितया, सखीषु दृष्टियस्ता । कीदृशी। नयनसलिलच्छन्ना । किं विशिष्टया। उच्चैनिःश्वस्य स्तनविनिहितहस्तया। क्व सति । दयिते गच्छति सति । कुतो हेतोर्गच्छतीत्याह-चरणपतनस्य यन्निराकरणं तेनालब्धप्रसादे । पुनः कीदृशे । निगूढशठचरितेत्यभिहिते । पुनरपि किंविशिष्टे । क्रुघा कर्कशतां यावन्नीते। 'अपमानितश्च नार्या विरज्यते यः स उत्कृष्टः' इति वचनादन्यत्र गच्छतो नायकस्य द. क्षिणत्वम् । स्तनार्पितहस्तयेति हृदयसंतापसूचकश्चेष्टाविशेषः । नयनसलिलच्छन्नेति सखीष्वेव प्रतिविधानसूचिका दीना दृष्टिः । यदुक्तम्-'अर्धस्रस्तोत्तरपुटा छन्नतारा जलाविला । मन्दसंचारिणी दृष्टिीनेति परिकीर्त्यते ॥'
काच्या गाढतरोवनद्धवसनप्रान्ता किमर्थ पुन
मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति । मातः स्वप्नुमपीह वारयति मामित्याहितक्रोधया
- पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ २१ ॥ तया नायिकया शयने शय्यायामवकाशो दत्तः । अर्थात्प्रियस्य । किं कृत्वा । परिवृत्त्य । केन । स्वपनच्छलेन । आहितक्रोधयेव आहितः क्रोधो यया। कथमिति । हे मातः,
१. 'प्रत्याख्यानात्' इति शृङ्गारदीपिका. २. 'उक्त्वा' इति शृङ्गारदीपिका. ३. 'स्तनाहित' इति शृङ्गारदीपिका. ४. 'क्लिन्ना' इति शृङ्गारदीपिका. ५. 'अवबद्ध' शत शृङ्गारदीपिका, ६. 'सुप्तिमपीह लुम्पति ममेत्यारोपित' इति शृङ्गारदोपिका.
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95