Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । १९ गावानर्थो गम्यते तावता शब्दस्याभिधैव व्यापार इति चेत्, प्रष्टव्या ययम् 'ब्राझण, पत्रस्ते जातः कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि [न] वाच्यत्वम् । मान लक्षणा । लक्षणीयेऽप्यर्थे दोघेदीघोभिधाव्यापारेणैव प्रतीतिसिद्धेः । जाया च पतिश्च दंपती । उत्तरपदाधिकारे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । दर्गसिंहाचार्यस्तु जंदंशब्दौ जायासमानार्थाविति मन्यते। शुकादयस्तु शृङ्गारिणां भवनेषु भव. न्त्येव । यदुक्तम् –'वृक्षायुर्वेदयोगमेषकुक्कुटलावकयुद्धविधिशुकशारिकाप्रलापनम्' इयादि । दाडिमबीजमेव पद्मरागसदृशं भवति न तु फलमित्याशङ्का यदि भवति तदा 'दाडिममृषाबीजेन' इति युक्तः पाठः । वाग्बन्धनमित्यत्र कारणे कार्योपचारः । तेन मखबन्धनमित्यर्थः । अन्योऽपि यः परमर्मोद्धाटनं करोति तस्य बन्धनं विधीयत इत्युक्तिलेशः । कविर्वक्ता । लजया व्यभिचारिभावेन पुष्टः संभोगशृङ्गारः । पद्मरागशकले दाडिमबीजभ्रान्तिरिति भ्रान्तिमानलंकारः । यदुक्तम्-'वस्तुविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति । यथा-'पालयति त्वयि वसुधां विविधाध्वरधूमशालिनोः ककुभः । पश्यन्तो दूयन्ते घनसमयाशतिनो हंसाः ॥' काचिन्मानिनी मन्यूपतापेन नायकं प्रति सोल्लुण्ठमभिधत्तेअज्ञानेन पराङ्मुखी परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मैलतैलपङ्कशबलैवेणीपदैरङ्कितम् ॥ १७ ॥ हे कितव, त्वया किमुपार्जितम् , अपि तु न किमपि । किं कुर्वता । मदालिङ्गनरूपेण दुनयेनात्मनः सौभाग्यमेतामयोग्यामवस्थां प्रापयता। किं कृत्वा । अन्याङ्गनासंगमलक्षणात्परिभवाहुःखितामनभिमुखीमाश्लिष्य। केन । अज्ञानेन । कोऽर्थः। यस्यां त्वमनुरक्तस्तद्रमेण । कोदशी सौभाग्यदरवस्थेत्याह–पश्यैतदित्यादि । वर्तते। कि तत् । तव वक्षः। कीदृशम् । मलतैलपङ्कशबलैर्वेणीपदैरङ्कितं लाञ्छितम् । किविशिष्टं पूर्वमासीत् । दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणम् । वल्लभास्तनयोर्व्यतिकरण संबन्धेन प्रोञ्छितो योऽङ्गरागस्तनारुणम् । अत्र दयिताया आज्ञाभङ्गो दुर्नयशब्दार्थः । तेन च तया त्वं निग्राह्योऽसीति व्यङ्ग्यम् । पश्येतिक्रियाया वाक्यार्थ एव कर्म, न तु वक्षः । नहि वक्षस्ते पश्येयुक्तिर्भवति । अपि तु वक्षस्त्वमिति । इयं च नायिका ऋतुस्नानोन्मुखी । अन्यथा तैलपङ्कादिप्रयोगः शृङ्गारोपनिबन्धे तत्रभवतां छान्दसानामेव सुकरः । तस्मिन्नेवावसरे नायकन नूनमन्याङ्गनासङ्गः कृतः । ईर्ष्यामानात्मको विप्रलम्भः । आलिङ्गनेन स्पर्शनात्मकः संभोगोऽपि किं न स्यादिति चेत्, न । परस्परानुकल्याभावात् । न चैवं प्रतीतिराप नास्तीति वाच्यम् । पराङ्मुखत्वेऽपि नान्योऽयमिति प्रतीतेः । यथोत्तरचरिते १. 'व्यतिकरासक्ताङ्ग' इति शृङ्गारदीपिका. २. 'मम तैलपङ्कमलिनैः' इति शृङ्गार दीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95