Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । १५ नश्रवणकौतुकचपले श्रोत्रे च कर्णकण्डूयनव्यपदेशेनाकुश्चिते । अपरं च स्वविवक्षारससूचकः कपोलयोः सरोमाञ्चः स्वेदोद्गमो हस्ताभ्यामाच्छादितः । अत्रेदं प्रकर्षेण (?) प्रियविषये प्रीतिप्रकर्ष एव । मानाय नायिकया प्रयत्ने क्रियमाणेऽप्यवयवानां प्रियसंगमोत्सुकत्वात् । अत्राप्युत्तर एवालंकारः । यथा- 'भण मानमन्यथा मे मौनं भ्रुकुटिं विधातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखी भवितुम् ॥' यत्नाक्षेपश्च । यदुक्तम्- 'यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥' यथा - 'गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्प्रियैषिणी । निर्गच्छति मुखाद्वाणी मागा इति करोमि किम् ॥' प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाह्नि प्रिय त्वमिष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालेापैः सवाष्पगलज्जलैः ॥ १२ ॥ वासरशतप्राप्यं देशं प्रियस्य जिगमिषो: प्रस्थानं मुग्धा निषेधति । कैः । अश्रुगलजलैरालापैः । कथम् । इत्यमुना प्रकारेण । हे प्रिय, प्रथमप्रहरावसाने त्वमिहागमिष्यसि । अथवा मध्याह्ने । उत स्वित्तस्मादपि परेण । तृतीयप्रहरेणेत्यर्थः । अत्र 'विवक्षातः कारकाणि भवन्ति' इति करणे तृतीया । यथा - 'समेन धावति', 'विषमेण धावति' इत्यादौ । अपिशब्दस्यायमभिप्रायः- हे निष्करुण, मध्याह्नादप्यनन्तरं बहिः स्थातुं न युज्यत इति । अत्र सप्तम्यन्तानां पदानामन्तरेऽस्य पदस्य तृतीयान्तत्वेनोपक्रमभङ्गो न दोष एव । अर्थस्यान्यथा प्रतीतेः। पददोष एवास्य रसकवेः क्वाप्यस्तु । यदुक्तमुपाध्यायेन'पदविह्वलता वापि स्पृहणीया भवति रसकवीन्द्राणाम् । घनजघनस्तनमण्डलभारालसकामिनीनां च ॥' अनेनापि प्रश्नेन यदा नायकोऽनभ्युपगमनसूचकं मौनमेव जग्राह, तदा नायिका पुनराह - अनन्तरमाहोत्स्वित्सर्वस्मिन्नेव दिनेऽतिक्रान्ते । अत्र मौग्ध्येन नर्मस्पर्शिन्यां विरहासहिष्णुतायां तात्पर्यम् । अत एव रात्रौ व्यतीयायामुदिते स्विदागमिष्यतीति प्रयोगो न कृतः । विरहासहिष्णुतात्मकविप्रलम्भरसोत्कर्षहेतुर्जातिरलंकारः ॥ धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता । १. 'परेऽथवा' इति शृङ्गारदीपिका. २. 'वाक्यैः सबाष्पझलज्झलै:' इति शृङ्गारदीपिकासंमतः पाठः. 'सबाष्पाणि च तानि झलज्झलानि च तैः । सबाष्पगद्गदैरित्यर्थः ।’ इति तद्वयाख्यानम्. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95