Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
विपचर्यते वा प्रसिद्धितः सेति परिवृत्तिः ॥' यथा-'दत्त्वा दर्शनमेते म. प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ कोपात्कोमललोलबाहुलतिकापाशेन बहा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निद्रुतिपरः प्रेयान्रुदत्या हसन् ॥९॥ हन्यते क्रीडाकमलादिना ताड्यते। कोऽसौ । प्रेयान् । कीदृशः । धन्य एव । कया। दयितया । किं कुर्वत्या । रुदत्या । किं कुर्वन् । निहुतिपरो हसन् । नाहं तत्र गत इत्यादिवचनेन मानोपशमं लक्षयित्वा स्मयमानः । किं कृत्वा हन्यते । वासनिकेतनं नीत्वा । वासनिकेतनमेव किं कृत्वा नीतः। कोपात्कोमललोलबाहुलतिकापाशेन बड़ा दृढम् । बाहलतिकाया लोलत्वं सात्त्विको भावः । लतिकेत्यनेन दुःसहविरहक्लेशकार्यम् । अत एव बन्धनव्याजादौत्सुक्येन स्वयंग्रहाश्लेषः । क्व । पुरः । कासाम् । सखीनाम् । कदा। सायम् । यदि मानमेव धृत्वाद्यतनीमपि रात्रि प्रतिपालयिष्यामि तदा मा कदाचिदल. (य)मन्यत्र वय॑तीत्यौत्सुक्यप्रतिपादकः सायंशब्दप्रयोगः । अत एव लज्जापरित्यागयोतकं सखीनां पुरः इत्युक्तम् । पुनः किं कृत्वा । व्यलोकं संसूच्य । कथमिति । भूयोऽप्येवमिति । अर्थादिदानींतनोऽपराधः सोढ इति लभ्यते । भूयोऽप्येवं करिष्यसीति वाच्ये यदोक्तं तत्र रोषसात्त्विकसंकीर्णसंभ्रमहेतुको वास्तम्भः कारणम् । अत एव स्खलन्मृदुगिरा । अहो अन्यदेव किमपि दयितायाः प्रभुत्वं यत्समकालमेव निग्रहप्रसादौ । नहि बाहुलतिकाबन्धनं विहाय कश्चिदन्यः प्रसादोऽस्ति । अत्र कविर्वक्ता । ईर्ष्यामानात्मकविप्रलम्भारम्भः संभोगशङ्गारपर्यवसितो रसः । अत्रालंकारो रसनिर्वाहणैकतानहृदयेन कविनात्यन्तं न निर्वाहं नीतः । यदाह ध्वनिकारः-'अत्र हि बाहुलतापाशेनेति रूपकमाक्षिप्तमनिषूटं च परं रसपुष्टये ।' अधीरा प्रगल्भा नायिका ।। कश्चिद्देशान्तरगमनोपक्रमं विहाय यथापूर्वमवस्थितः केनचिदगमनकारणं पृष्टः प्राहयाताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सबाप्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ १० ॥ भाविन्यावश्यके । निःसंदेह इति यावत् । मरणे उत्साहस्तया सूचितः । केन हसि7 अद्विलक्ष्यजन्मना । किं कृत्वा। मां दृष्ट्वा । केन । चक्षुषा । न तु चक्षुभ्याम् ।
१. 'मोहनमन्दिरं' इति शृङ्गारदीपिका. २. 'स्वैरं' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95