Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। स्त्रिपुरयुवतय एव कर्मत्वेनावधार्याः, न तु केशाः । यथा-'गृहीत इव केशेषुइति । आलिङ्गन्योऽवधूत इत्यत्र चरणनिपतितोऽपि दृष्टिमात्रेणापि न संभाव्यते स कथमालिङ्गितुमिच्छतीत्यर्थः । कस्यांचित्कृते कृत्वा(?) प्रतिपादितमुन्मादितः कामातुरस्तस्यालिङ्गनमुचितमिति समाधानम् । अस्य कवेस्तावदन्यः कोऽपि प्रबन्धो न दृश्यते । तन्नूनमनयोः श्लोकयोः संकीर्णरसोपनिबन्धोऽनेन दर्शितः । अग्रे सर्वत्र शृङ्गाररसस्यैवोपनिबन्धनीयत्वात् । संकीर्णरसोपनिबन्धस्तु निकषो रसकवीनाम् । किं चामीषां श्लोकानां तावती रसोपकरणसामग्री यावती प्रबन्धेषु भवति । अत एवोक्तं भरतटीकाकारैः-'अमरुककवरेकः श्लोकः प्रबन्धशतायते' इति ॥ आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः शीकरैः। तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्देवतैः ॥ ३॥ तत्कृशाङ्गयाः पुरुषायितसंभोगमध्ये खेदालसलोचनं मुखं त्वामनेककालं त्रायताम् । किं वैकुण्ठशितिकण्ठषण्मुखप्रमुखै किभिः । अपि तु न किमपि । नहि ते रसातिरेकोन्मत्तपुरुषायितसंरब्धविदग्धनितम्बिनीवदनचन्द्रविरहदहनदन्दह्यमानं रक्षितुं क्षमन्ते । एतेनानुरागविह्वला तरुणी तवाभिलाषोचितमानुगुण्येन संपादयत्वित्यर्थः । यदुक्तम्"पांतु वो दयितामुखम्' इति सांमुख्ये।" किं कुर्वाणम् । चञ्चलां चूर्णकुन्तलमालां विलुप्तरचनाविशेषां दधानम् । पुनश्च कीदृशम् । कम्पमानकर्णाभरणम् । भूयः कथंभतम् । स्तोकोत्पुंसिततिलकम् । कैः । सूक्ष्मसूक्ष्मैः श्रमसात्त्विकसंकीर्णैर्जलबिन्दुभिः । अनुशयाक्षेपोऽलंकारः । 'मुखेन्दौ तव सत्यस्मिनितरेण किमिन्दुना ।' परमत्र वाक्यार्थस्य न प्राधान्यम् । किं तु रसस्यैव । नापि रसवदलंकारव्यवहारः । अपि तु रसोऽलंकार्यः । अलंकारश्च यथार्थ एव । 'नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशममनुमता च तेन तमवपात्य पुरुषायितेन साहायकं दद्यात् ।' इति वात्स्यायनः । अत्र प्रगल्भा नायिका । 'यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥' परित्यक्तव्रीडा चेयम् । यदुक्तम् –'एवमन्येऽपि परित्यक्तत्रीडायन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा वेदितव्याः ।' संभोगशृङ्गारो रसः । यदुक्तम्-'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मदान्वितः ॥' शृङ्गारस्य सामान्यलक्षणमेतत्-'रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ॥ प्रकृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितैः । अयोगो विप्रयोगश्च संयोगश्चेति स त्रिधा ॥' रसस्यैवाथ सामान्यलक्षणमेतत्-विभा १. 'स्वेदाम्भसा जालकैः' इति शृङ्गारदीपिका. २. 'हरिहरब्रह्मादिभिर्दैवतैः' इति शृङ्गारदीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95