Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । वैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वाद्यत्वं स्थायिभावो रसः स्मृतः ॥' सच व्यङ्गयव्यञ्जकभावेन भाव्यभावकभेदेन वा चय॑माणात्मकोऽसंलक्ष्यक्रमध्वनिसंज्ञितः। यदक्तं ध्वनिकृता-'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थो । व्यतः काव्यविशेष: स ध्वनिरिति सूरिभिः कथितः ।।' अस्ति ध्वनिः । स चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः । 'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ असंलक्ष्यक्रमद्योत्यः क्रमेण द्योतितोऽपरः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ रसभावतदाभासभावशान्त्यादिरक्रमः । ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ [क्रमेण परिपाट्या यः स्वानुस्वानाभसंनिभः । शब्दार्थशक्तिमूलत्वादिधा सोऽपि व्यवस्थितः॥' यदाह भरतः-'बहवोऽर्था विभाव्यन्ते वागर्थाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संस्मृतः ॥ वागङ्गसत्त्वाभिनयैरस्मादी विभाव्यते । वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति स्मृतः ॥' विविधमाभिमुख्यन रसं चरन्तीति व्यभिचारिणः । विभावैर्ललनोद्यानादिभिरालम्बनोद्दोपनकारणैः स्थायी रत्यादिको भावो जनितोऽनुभावैः कटाक्षभ्रूभुजाक्षेपादिभिः सहकारिभिरुपचितो रसः । यदाह भरतः–'सर्वथा नास्त्येव हृदयहारिणः काव्यस्य स प्रकारो यत्र प्रतीयमानमर्थसंस्पर्शनसौभाग्यं तदिदं काव्यरहस्यं परम्' इति ॥] परपुरुषप्रथमानुरागिणी कामपि नायिकां रहः सहचरी प्राह अलसवलितैः प्रेमाार्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलेनिमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ४ ॥ हे मुग्धे, कथय क एष पुण्यराशिर्भवत्या वीक्ष्यते । कदा । अद्य । कोऽभिप्रायः । अद्यप्राकोऽप्येवं त्वया नावलोकित इति । कैः । ईक्षणैः । भावभेदाबहुवचनम् । किं कुर्वद्भिरिव । उद्गिरद्भिरिव । किं तत् । हृदयनिहितं भावाकूतमभिलाषोचितं संकल्पविशेषम् । वयःसंधौ हि नायिकाश्चिरसंचितं लजासंवृतं बहुतरमभिलाषं हृदये धारयन्ति । यश्च येनाध्मातो भवति स तमुद्रितीति युक्तमेव । पुनः किंविशिष्टैः । अलसवलितैरसौष्ठवतिरश्चीनैः । मन्थरतिर्यग्भतैरिति भावः । यथा कश्चित्केनापि लोभेन स्थानमत्यक्तुकाम इतरेण कार्यवशाबलात्कारेण प्रेर्य उत्थाप्यते न च प्राञ्जलो गच्छति तथेक्षणान्यपि हि स्फारोत्फुल्लानि भूत्वा प्रियदर्शनरसपानोयुक्तानि साध्वसेन प्रसह्य साचीक्रियन्ते । पुनः किंभूतैः। प्रेमाद्रौद्रैः प्रीतिस्निग्धस्निग्धैः।यदाह भगवान्भरतः स्थायिभावदृष्टीनामपक्रमे'व्याकोशा स्नेहमधुरा स्मितपर्वाभिभाषिणी। अपाङ्गभ्रकृता दृष्टिः स्निग्येयं रतिभावजा॥' पुनः कीदृशैः । मुहर्मकलीकृतैर्दर्शनसुखविशेषानुभवेन वारंवारमर्धनिमीलितैः । यथा क १. कोष्ठकान्तःस्थितः पाठः पुस्तकान्तरे नास्ति. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95