Book Title: Amru Shatakam Author(s): Durgaprasad Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ काव्यमाला । 'यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥' सर्वमङ्गलायाः कटाक्षस्त्वां पातु रक्षतु । किंविशिष्टः । ज्याकृष्टीत्यादि । बाणासनगुणाकर्षणेन रचितो यः खटकामुखो नाम हस्तस्तस्य पृष्ठं तत्र परिस्फुरन्यः करजकिरणकलापस्तेन संवलितः करम्बितः । खटकामुखलक्षणं चैतत् - 'अस्या एव यदा मुटैरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते । हस्तकः शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ शिखरस्यैव हस्तस्य यदाङ्गुष्ठनिपीडिता । प्रदेशिनी भवेद्वका कपित्थो जायते तदा ॥ उत्क्षिप्ता च यदा वक्रानामिका सकनीयसी । एतस्यैव कपित्थस्य तदा स्यात्खटकामुखः ॥' अथ कटाक्षस्योपमानगर्भ विशेषणमाह - पुनः किंविशिष्टः । मञ्जरितेत्यादि । मञ्जरी उद्भिद्यमानमुकुलसंततिः । सा संजातास्येति तारकादिभ्य इतच् । मञ्जरितो यः पल्लवः स एव कर्णपूरस्तत्र लोभस्तेन भ्रमन्यो भ्रमरस्तस्य विभ्रमो विलासस्तं बिभर्तीति क्विप् । इति तावद्वाक्यार्थः । रहस्यं चैतत्परमार्थसहृदया मन्यन्तेयं रसमुपनिबद्धमेष कविः प्रवृत्तः स यद्यप्यकृत्रिमानुरागस्त्रीपुंसपरस्परानुरागकल्लोलितः परां कोटिमधिरोहति तथापि नायिकायाः प्राधान्यम् । तत्प्राधान्यप्रकाशनपरश्चायमौचित्यात्कटाक्षमुख्यत्वेनाभीष्टदेवताशंसनश्लोकोऽपि प्रथमं लिखितः, 'क्षिप्तो हस्तावलग्नः' इत्यादिश्लोकस्तु चरमम् । किं च धर्मार्थयोरुपरिवर्तमानस्य मोक्षात्किचिदर्वाचीनस्य पुरुषार्थविशेषस्य निधानमपत्येनैव पितॄणामानृण्यहेतुभूता नितम्बिनीविहाय किमन्यदुपादेयम् । यदुक्तमुपाध्यायेन बालसरस्वत्यपरनाम्ना मदनेन — 'संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । यलक्ष्मीसमुपार्जनं पुलकिनां रक्तस्वरं गायतां यत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥' कामशास्त्रेऽप्युक्तम्- 'किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तस्मिन्व्यवस्थिताः ॥' परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय । एवंविधसंविधानकैः स्त्रीणां चारित्रखण्डनं भवति तस्मात्प्रयत्नेनैताः संरक्षणीया इत्युपदेशपर्यवसितत्वात् । अन्यथा वात्स्यायनो महर्षिस्तत्तदुपायैः परस्त्रीसाधनं कथं प्रणीतवान् । उक्तं च- ' - ' संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् । न याति च्छलनं कश्चित्स्वदारान्प्रति शास्त्रवित् ॥' यद्यपि धनुर्वेदे खटकामुखः प्रणीतोऽस्ति तथाप्यत्र नृत्यसंस्कार एवायं हस्तको देव्याः । एवं च महान्विशेषः । लप्स्यलीलयैव देव्या दुरतिक्रमदैत्यकुलक्षयः कृत इति प्रभावातिशयप्रतीतेः । ‘यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः' इत्युक्तत्वात्खटकामुखे कटाक्षनिवेशनं युक्तम् । सहृदयंमन्यैश्च पुनरत्र मुरटाप्रभृतिपञ्चमुष्टीनां मध्ये केयं मुष्टि: कैशिकप्रमुखपञ्चन्यायेषु कश्चायं न्याय इत्यादिशरासनशास्त्रचर्चा क्रियते । वयं त्वेवं ब्रूमः — यत्र शृङ्गरिकरसः कविः पुरुषायितप्रवृत्तकामिनीवदनमेव त्वां पातु किं हरिहरस्कन्दादिभिर्दैवतैरिति देवताशंसनमप्यपार्थकप्रायं प्रतिपादयति तत्र को नाम धनुर्वेदमनिर्वेदः पल्लवयितुमुत्सहत इति । प्रेङ्खन्नखांशुपाणिपृष्ठकटाक्षयोर्म अरित१. 'मुचटी' इति द्वितीयपुस्तके. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 95