Book Title: Amru Shatakam Author(s): Durgaprasad Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेनायं वेमभूपाल: केरलदेशीयः कश्चन शूद्रमहीपतिरासीदिति भाति. अभिनवबाणकविप्रणीते वीरनारायणचरिताभिधे गद्यकाव्ये वणितस्त्रिलिङ्गदेशान्तर्गत अहङ्गी'नामनगर्यधीशः कदाचिदयमन्यो वेति संदेहः. रुद्रमदेवस्तु नात्मानं वर्णितवान्. केवलं टीकासमाप्तौ 'अमरुकशतमिदमित्थं स्वबुद्धिविभवाद्रसाब्धितत्त्वज्ञः । रुद्रमदेवकुमारो विदग्धचूडामणिय॑वृणोत् ॥' इयमार्या वर्तते. रविचन्द्रविषये किमपि न ज्ञायते. सूर्यदासः. कदाचन सिद्धान्तसुन्दरकर्तृज्ञानराजदैवज्ञात्मजो रामकृष्णविलोमकाव्य-भगवद्गीताटीकयोः प्रणेतैव स्यात्. शेषरामकृष्णस्तु कश्चन वाराणसेयः शास्त्री. एतासु सप्तस्वपि टीकास्वर्जुनवर्मप्रणीता श्रेष्ठतमेति सैवास्माभिर्मुद्रिता. वेमभूपतिकतापि समीचीनव. रुद्रमदेवकृतातिसंक्षिप्ता. रविचन्द्रकृतायां शान्तरसोऽपि व्याख्यातः. स च शुचिरसस्यन्दिष्वमरुकश्लोकेषु परिशील्यमानेषु 'रहसि प्रौढवधूनां रतिसमये वेदपाठ इव' सहृदयानां शिरःशूलमेव जनयति. सूर्यदासेनार्जुनवर्मप्रणीतटीकायाः सर्वस्वमपहृतम्. शेपरामकृष्णेन वेमभूपालटीका सम्यगेव लुण्ठितेत्युभावपि परार्थहरणप्रवणावतिसाहसिकौ पाटचराविति न संदेहः. सप्तमी कर्तृनामरहिता टीका तु टिप्पणमात्र केनचिज्जैनेन प्रणीतेति भाति. एवं शंकरकृता हरिहरभट्टकृता अमरुदर्पणं चेति टीकात्रयमन्यदप्यस्ति. तवास्माभिर्नासादितम्. अस्मदृष्टान्यमरुशतकमूलपुस्तकान्यपि कानिचिदर्जुनवर्मदेवटीकायाः, कानिचिच्च वेमभूपालटीकायाः प्रायोऽनुकूलानि सन्ति. टीकाद्वये च श्लोकविन्यासभेदः. कानिचिच्च पद्यान्येकेन व्याख्यातान्यपरेण परित्यक्तानि. अमरुशतकपुस्तकेष्वनुपलभ्यमानानि कानिचन पद्यानि सुभाषितावल्यादिष्वमरुकनाम्ना, कानिचिच्च शतकपुस्तकेषूपलभ्यमानान्यप्यन्यकविनाम्ना समुद्धृतानीत्यादि सर्व परिशिष्टेषु श्लोकानुक्रमणिकायां चास्माभिर्दशितमस्तीति शिवम्. अस्मन्मुद्रणाधारभूतानि पुस्तकानि त्वेतानि(१) अर्जुनवर्मटीकासमेतं कश्मीरलिखितं प्रायः शुद्धं नवीनमस्मदीयम्. तत्पत्राणि २६. (२) अर्जुनवर्मटीकासमेतं जयपुरराजगुरुभट्टलक्ष्मीदत्तसूनुभट्टश्रीदत्तशर्मणां प्रायः शुद्धं १६९५ विक्रमसंवत्सरे लिखितम्. तत्पत्राणि ६४. (३) अर्जुनवर्मटीकासमेतमेव डॉक्टर् पी. पीटर्सन्महाशयेन मथुरातः समानीय दत्तं १६६५ विक्रमाब्दे लिखितं नातिशुद्धमष्टपत्रविकलम्. (४) वेमभूपालकृतटीकासमेतं जयपुरराजगुरुपर्वणीकरोपाह्वनारायणभद्यानां नातिशुद्धम् . तत्पत्राणि ३१. (५) तादृशमेव मुम्बईनगरवास्तव्यपण्डितज्येष्ठाराममुकुन्दजीशर्मणाम्. तत्पत्राणि ३४. (६) रुद्रमदेवकृतटीकासमेतं शुद्धं १५७९ विक्रमाब्दे लिखितं मुरतनगरवासिना केवल दासात्मजेन भगवानदासश्रेष्ठिना समानीय दत्तम्. (७) इतस्ततः संपादितानि त्रिचतुराणि मूलपुस्तकानि. For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 95