Book Title: Amru Shatakam Author(s): Durgaprasad Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुकविः । - - अमरुशतकं मण्डनमिश्रपल्याः शारदायाः प्रश्नानामुत्तरदानार्थ गतासोरमरुकाख्यमहीपतेदेहं प्रविष्टेन श्रीशंकराचार्येण प्रणीतमिति बहूनां प्रवादः. “भगवाञ्छंकराचार्यों दिग्विजयच्छलेन काश्मीरमगमत् । तत्र शृङ्गाररसवर्णनार्थ सभ्यैरभ्यर्थितः 'शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्' इति वचनादमरुनाम्नो राज्ञो मृतस्य परवपुःप्रवेशविद्यया शरीरे प्रवेशं कृत्वा स्त्रीशतेन सह केलिं विधाय प्रातस्तथा कारयामास | पिशुनैः कापटिकोऽयमाजन्मब्रह्मचारीत्युपहसितः शान्तरसमत्र व्याचष्टे इति किंवदन्ती” इति रविचन्द्रः स्वकृताया अमरुशतकटीकायाः प्रारम्भे लिलेख. किं त्वेतत्सर्व शंकरदिग्विजयानवलोकनमूलं प्रमादविलसितम्. तथा हि माधवकविप्रणीते शंकरदिग्विजये नवमदशमसर्गयोः “कलाः कियत्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः । पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पूरुषे ॥ इति श्रीशंकराचार्य प्रति शारदाप्रश्नाः । ततः शारदाप्रश्नश्रवणानन्तरं यद्यस्याः प्रश्नानामुत्तरं न दास्यामि तदा ममाल्पज्ञता प्रतीयेत, उत्तरदाने तु संन्यासिनो मम कामशास्त्रचर्चया धर्मक्षयो भवेदिति विचार्य प्रश्नोत्तरदाने मासमात्रमवधि विधाय शिष्यैः सह गगनमुत्पपाताचार्यः । गगने बम्भ्रम्यमाण एव मृगयार्थमायातमटव्यामेव दैवयोगाद्गतप्राणं विलपन्तीभिः प्रमदाभिः परितममरकाव्यमहीपतिं तरुमूले विलोक्य सनन्दनाख्यशिष्येण सह संमन्त्र्य शिष्यैः कृतरक्षमात्मकलेवरं कुत्रचन गिरिगह्वरे निधाय योगयुक्त्यामरकनृपशरीरे प्रविवेश | प्रमुदितैर्मन्त्रिभिर्महिषीभिश्च समेतो नृपशरीरधारी राजधानी च जगाम । तत्र च मनोहरतराभिर्महीपतिपङ्कजाक्षीभिस्तांस्तान्भोगानुपभुज्य कामतत्त्वं सम्यगभिज्ञाय 'वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च विलोक्य सम्यक् । स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥” इत्याख्यायिका वर्तते. एतेन श्रीशंकरशार यो वात्स्यायनीयकामसूत्रानुकूलं कमपि निबन्धं रचयामास, तत्रैव च शादानानामुत्तराण्यप्यन्तर्भावयांचकारेति प्रतीयते. न त्वभरुशतकनिर्माणसूचनमात्रमपि शंकरदग्विजये समुपलभ्यते. नाप्यमरुशतके शारदाप्रश्नोत्तरानुरूपं किमप्यस्ति. एवं रविचन्द्रोक्तमप्यसंबद्धमेव यतस्तत्रैव षोडशे सर्गे आचार्यस्य काश्मीरयात्रा तत्र च शारदासदने तत्तद्देशवासिभिर्वादिभिर्विवादश्च सम्यग्वणितः. किं तु शृङ्गाररसवर्णनार्थ सभ्यैरभ्यथित इत्यादिरविचन्द्रोक्तं तत्र नोपलभ्यते तस्मादेवंविधा निर्मूला जनश्रुतयः कथं प्रमाणत्वेन स्वीकर्तुमर्हाः ? अथ यदि शारदाप्रश्नोत्तरदानार्थ निबन्धं प्रणीयामरुशतकमप्याचार्येणेव निरमायीति को विकल्पावकाश इत्युच्यते, तर्हि तन्निबन्धनिर्माणं शारदाप्रश्नोत्तरदानार्थमात्मनः सर्वज्ञताकीतिरक्षार्थ च, किं त्वमरुशतकप्रणयनं शृङ्गारव्यसनितयैवेत्यप्यङ्गीकार्यमिति महती विडम्बना यतिवरस्य. तस्मादस्य शतकस्य प्रतामरुकविः कश्चिदन्य एव. स च कदा कुत्र समुत्पन्न इति न ज्ञायते. किं तु ध्वन्यालोकस्य तृतीयोद्दयोते 'मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । तथाह्यमरुकस्य कवेमुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव ।' इत्यानन्दवर्धनाचार्य उक्तवानुदाहतवांश्च बहूनमरुशतकश्लोकांस्तत्तत्स्थलेषु. तस्मात्खिस्ताब्दीयनवमशतकात्याक्तनोऽमरुकविरिति ज्ञायते. For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 95