Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकस्यास्य भूयस्यष्टीका वर्तन्ते । तत्रास्माभिः (१) अर्जुनवर्मदेवकृता रसिकसंजीविनी, (२) वेमभूपालकृता शृङ्गारदीपिका, (३) रुद्रमदेवकृता, (४) रविचन्द्रकृता, (५) सूर्यदासकृता शृङ्गारतरङ्गिणी, (६) शेषरामकृष्णकृता रसिकसंजीविनी, (७) कर्तृनामरहिता, इति टीकासप्तकमासादितम्. तत्रार्जुनवर्मदेवः सुप्रसिद्धस्य मालवाधिपते जनरेन्द्रस्य वंश्यः सुभटवर्मसूनुरासीदिति तत्कृतटीकाप्रारम्भश्चोकेभ्यः काव्यमालायां ३ लेखे मुद्रितात्तदीयदानपत्राच ज्ञायते. तच्च दानपत्रं १२७२ मिते विक्रमाब्दे लिखितमिति ख्रिस्ताब्दीयत्रयोदशशतकपूर्वाधेऽर्जुनवर्म आसीदित्यपि सुव्यक्तम्. अर्जुनवर्मदेवश्च टीकायां 'यदुक्तमुपाध्यायेन बालसरस्वत्यपरनाम्ना मदनेन' इति वदंस्तत्तत्स्थलेषु मदनोपाध्यायप्रणीतान्बहूश्लोकान्प्रमाणत्वेनोपन्यस्तवान्. दानपत्रसमाप्तौ 'रचितमिदं-राजगुरुणा मदनेन' इत्यस्ति. तस्मात्कस्यचनालंकारनिबन्धस्य प्रणेता अर्जुनवर्मगुरुर्मदनोपाध्यायोऽपि तत्समय आसीत्. तत्प्रणीतग्रन्थस्तु नाद्यापि दृक्पथं गतः. 'हरिहर गर्व परिहर कविराजगजाङ्कशो मदनः । मदन विमुद्रय वदनं हरिहरचरितं स्मरातीतम् ॥' इति प्राचीनं पद्यमपि कदाचिदस्यैव मदनोपाध्यायस्य वर्णनपरं स्यात्. वेमभूपालस्तु शृङ्गारदीपिकापारम्भे इत्थमात्मानमवर्णयत्'अन्योन्यमेलनवशात्प्रथमं प्रवृद्धं मध्ये मनाग्व्यवहितं च कुतोऽपि हेतोः । प्राप्तं दशामथ मनोरथलाभयोग्यां पायाच्चिरं रतिमनोभवयोः सुखं वः ॥ आसीच्चतुर्थान्वयचक्रवर्ती वेमक्षितीशो जगदेकवीरः । एकादशेति प्रतिभान्ति शङ्कां(?) येनावताराः परमस्य पुंसः ॥ राज्यं वेमः सुचिरमकरोत्प्राज्यहेमाद्रिदानो भूमीदेवै वमुरुभुजो भुक्तशेषामभुत । श्रीशैलापात्प्रभवति पाथेतिपातालगङ्गे सोपानानि प्रथमपदवीमारुरुक्षुश्चकार ॥ माचक्षोणिपतिर्महेन्द्रमहिमा वेमक्षितीशाग्र(नु)जो । रामायैः सदृशो बभूव सुगुणैस्तस्य त्रयो नन्दनाः । कीर्त्या जाग्रति रेडिपोतनृपतिः श्रीकोमटीन्द्रस्ततो नागक्ष्मापतिरित्युपात्तवपुषो धर्मार्थकामा इव ॥ वेमाधिपो माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ । भूलोकमेकोदरजन्मवाञ्छ्या भूयोऽवतीर्णाविव रामलक्ष्मणौ ॥ स वेमभूपः सकलासु विद्यास्वतिप्रगल्भो जगनोष्वगण्ड:(१)। कदाचिदास्थानगतः कवीनां काव्यामृतास्वादपरः प्रसङ्गात् ॥ अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् । श्रुत्वा विकसितचेता तदभिप्रायं प्रकाशतां नेतुम् ॥ मूलश्लोकान्समाहत्य प्रक्षिप्तान्परिहत्य च । विधत्ते विदुषामिष्टां टीका शृङ्गारदीपिकाम् ॥' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 95