Book Title: Amru Shatakam Author(s): Durgaprasad Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अमरुककविविरचितम् अमरुशतकम् । महाराजश्रीमदर्जुनवर्मदेवप्रणीतया रसिकसंजीवनीसमाख्यया व्याख्ययोपेतम् । - - देवी रतिर्विजयते मृगनाभिचित्रपत्रावली पृथुपयोधरसीम्नि यस्याः । भाति त्रिलोकविजयोपनतस्वकान्तप्रक्रान्तसायकनिशाणनकालिकेव ।। भ्रूलास्योत्सविनी सविभ्रमगतिर्मूईनितम्बस्तना संकीर्णे वयसि स्मिताभणितिः सा पार्वती पातु वः । यस्याः कर्णतटं दृशावगमतां तूर्ण तदन्तःपथे गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्ठानमाकुश्चिते ।। अमरुककवित्वडमरुकनादेन विनिद्भुता न संचरति । शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥ आपद्यन्तां विकासं कथमिह कुमुदानीव कार्कश्यदीप्यत्सूर्यारब्धप्रबन्धव्यसननिपतितान्युत्तमानां मनांसि । आविर्भावं भजन्ते यदि न बुधगुरोर्मन्मथप्रौढिकाराः क्रीडाधाम्नः कलानाममरुकसुकवेः केऽप्यमी श्लोकपादाः॥ क्षिप्ताशुभः सुभटवर्मनरेन्द्रसूनुर्रिव्रती जगति भोजकुलप्रदीपः । प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुतेऽर्जुनवर्मदेवः ॥ अव्युप्तत्तिमतामन्तःप्रबोधाय सचेतसाम् । काव्याभिधेयालंकारलक्षणं लिख्यते मनाक् ॥ तत्रादिमोऽयमाशंसनश्लोकः ज्याकष्टिबद्धखटकामुखपाणिप्टष्ठ प्रेकन्नखांशुचयसंवलितोऽम्बिकायाः। त्वां पातु मञ्जरितपल्लवकर्णपूर लोभभ्रमद्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥ १. 'तर्जनीमध्यमामध्ये पुङ्खोऽङ्गष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्तः कट. कामुखः ॥' इति शृङ्गारदीपिका. २. 'मृडान्याः' इति शृङ्गारदीपिकासंमतः पाठः, For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 95