Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 18
________________ प्रस्तावना श्रयस्य दुविनीतभूपते राज्यशासनकालस्तावत् ६०५-६५० परिमिता. ब्दपर्यन्तोऽस्ति । भारविश्च षष्ठशतकान्ते सप्तमशतकादावासीत् । ७२०-७३० यावत्समये दण्डिनः स्थितिञ्जयते । अतः अष्टमशतकस्य पूर्वाधे उत्तरार्धे वा तस्य सम्भवो युज्यते। 'षष्ठे शतके दण्डिनः सत्ते'. ति मेक्डोनल् (Macdonell) महाशयस्य वचनं तु विचारणीयमेव । दण्डिनिर्मितप्रबन्धत्रितयमध्ये तृतीयमेकं द्विसन्धानकाव्यं धन. अयकृताद्विसन्धानकाव्यतो भिन्नं शृङ्गारप्रकाशिकायां सूचितम् । दण्डिना कृताः काव्यादर्शदशकुमारचरितादयो ग्रन्थाः प्रसिद्धा एव । नैषधम्-प्रसिद्धस्य काव्योत्तमस्य नैषधस्य कर्ता खण्डखाद्यादिवि. विधप्रबन्धनिबन्धनधरन्धरः साहित्ये तर्के च सरस्वत्याः समानली. लाविलासप्रसादमधिगतः श्रीहर्षो हि कान्यकुब्जाधीश्वरस्य प्रसिद्ध. क्षत्रियकुलाङ्गारजयचन्द्रस्य पितरं गोविन्दचन्द्रभूपालमाश्रितो द्वादशशतकान्ते विद्यमान आसीत्। भरतः-प्रसिद्धस्य नाट्यशास्त्रकर्तुरालङ्कारिकशिरोमणेः श्रीमतो भरत. मुनेः समयनिरूपणं कर्तुमशक्यमेव । भार्गवसर्वस्वम्-न ज्ञायते,कं विषयमवलम्ब्य केन वा ग्रन्थोऽयं निर्मित इति। भोजराजः-धारानगर्या राज्यासनमलर्वाणस्य भोजस्य ९९६-१०५५ ईशवीयाब्दमितोऽस्ति समयः। अमुना हि विख्यातिमता तत्र तत्र शास्त्रेषु ते ते ग्रन्था निरमायिषत। एतनिर्मितः 'शृङ्गारप्रकाशो' नामैको ग्रन्थो मद्रासराजकीयपुस्तकालये हस्तलिखितो विद्यते । म० म० कुप्पुस्वामिकृतवर्णनतः प्रतीयते, यदेष ग्रन्थः षट्त्रिंशत्प्रकाशात्मकोऽलङ्कारग्रन्थेषु सर्वेभ्यो महत्तम इति । चतुर्विशतिः प्रकाशा. स्तत्र रसनिरूपणपराः। अस्मिन् ग्रन्थे शृङ्गारस्यैव सकलरसमूलभूतत्वं प्रतिपादितम् । एतत्प्रमाणोपष्टम्भेनैव 'शृङ्गारः प्रथमो रस' इति तदितरैरपि सिद्धान्तितम् ।। महर्षिः-भरतमुनिरन्यो वा कश्चिदयं महर्षिरित्यत्र प्रमाण भावान्निश्चयो न कर्तुं शक्यते। महिमभट्टः–व्यक्तिविवेकनिर्माताऽसौ काव्यन्यायविचक्षणः प्रायो दशमशतके आसीत्। माघः -अस्य पितामहः 'सुप्रभदेवो' नाम वर्मलातभूपतेर्मन्त्री। वर्मला. १ सर्वमिदमन्यदप्येतद्विषयकमवन्तिसुन्दरीकथातोऽवगन्तव्यम् ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152