Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
द्वितीयरने द्वितीयमरीचिः।
व्याकीर्णम्-व्यवहितान्वयम् । यथा-- ममृणचरणपातं गम्यतां भूः सदर्ण
विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । - तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधुभिर्वीक्षिता शिक्षिता च ॥ अत्र 'तद्गम्यताम् तद्विरचये'त्यन्वये तदिति व्यवहितम् । समाप्तपुनरात्तकम्-समाप्ती प्रधानवाक्यार्थबोधे जाते पुनरुपात्तम् । यथा 'निर्माल्यं नयनश्रिय' इत्यादौ 'चिरा'दिति । यथा च(१)--
क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो . ___ झङ्कारो रतिमअरीमधुलिहां लीलाचकोरध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण
काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः । अत्र 'वेणुस्वन' इति । भग्नक्रमम्-यत्रार्थः शब्दो वा (२)क्रमेण नास्ति । उभयं यथा
तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।
कान्तिप्रतापौ भवतः सूर्याचन्द्रमसो समौ ॥ भग्नयति यथा 'रामे तटान्तवसतौ कुशतल्पशायिन्यवापि' इत्यादौ । अत्राऽऽवश्यकी पदशेषयतिनास्ति । भग्नच्छन्दो यथा
ततः परमोमित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि संप्राप्तः प्रथमोद्दिष्टमाश्रमम् ॥ अत्र (३)पश्चमं लघु कर्तुमर्हति । यत्रापर्यवसितवाक्यमध्ये तदनपेक्ष वाक्यान्तरमनुपविशति, तद्वाक्यगर्भम् । यथा
योग्यो यस्ते पुत्रः सोऽयं दशवदन! लक्ष्मणेन मया। (१) द्वितीयमिदमुदाहरणं गपुस्तके नास्ति । (२) शाब्दो वा क्रमो नास्ति-इति गपु० पाठः। (३) एतदनन्तरं-चतुर्थे गौरवे-इत्यधिकः कपु० पाठः ।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152