Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 113
________________ ७४ अलङ्कारशेखरे - मा संभावय शल्येन फाल्गुनस्य पराजयम्। कः प्रतीयात्कुरुश्रेष्ठ ! मृगात् सिंहः पलायते ॥ नहि गाण्डीवकोदण्ड(१)मृगाव सिंहः पलायते । तरिक कमलपत्राक्ष ! मृगात सिंहः पलायते ।। मुबोधमखिलम् । तार्किकास्तु(२). शब्दादुच्छलिते सिन्धौ शैलाण्डादौ विदारिते। .. त्वत्प्रतापाद्रवीभूते स्वर्णाद्रौ(३) मलिने रवौ ॥ . . विरहे सर्व दहनः सन्तोष सर्वमेव शशी। कामिनि सर्व काम्यं शान्ते लोष्ठायते विश्वम् ॥ ... वैशेषिकेषु काव्येषु गुणेषूत्कृष्टमन्दयोः । : अपेक्षायां च संसर्ग स्यातामुत्कृष्टमन्दते ॥ वैशेषिकेषु रूपादिपञ्चसु । काव्येषु । गुणेषु शौर्योदार्यसौन्दर्यादिषु । अपरिकलितकाव्यसरणिगीश्वरं वशीकर्तुमनतिचिरमनुसरन् कविः अव्ययैरजहल्लिङ्गैः साधारणविशेषणैः।। छन्दो ज्ञात्वा पृथग्वाक्यैः स्वबुद्ध्या मानसीं श्रयेत् ॥ समस्यं पदं वाक्यमिति स्मर्तव्यम्(४)। शिशूनां गतयेऽस्माभिर्दिात्रमिह दर्शितम् । काव्यकान्तारपान्थानामीगर्थे कियान् श्रमः ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे कविसामर्थ्यरत्ने समस्यापूरणादिमरीचिः । ...( १ ) कोदण्डो मृगादित्यादि-इति कपु० पाठः । (२) तार्किकास्तु-इति कपुस्तके नास्ति। (३) स्वर्णायण्डादितैजसे-इति खपु० पाठः। (४) समस्यापदं वाक्यं स्मर्तव्यम्-इति क,पु० पाठः। :

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152