Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 132
________________ अष्टमरत्ने तृतीयमरीचिः। मामकीनां कृतिमिमां द्वेषतो(१) दूषयन्ति ये । काव्यवाती न जानन्ति ते नूनं पांसुलासुताः(२) ।। आस्ते यद्यपि पूर्वपण्डितकृतव्याख्यैव संख्यावता मानन्दाय तथापि केशवकवेर्वाचामियं गुम्फना । व्याख्यासौष्ठवंशब्दलाघवमिथासम्बन्धपूर्वापर प्रत्यर्थप्रतिबन्धनिर्मलगुणा(३)कुत्राऽन्यतो(४)लभ्यताम् ॥ तमोढमतिः प्रशस्तकवितावल्लीवसन्तोत्सवः कोशव्याकरणप्रपञ्चचतुरोऽलङ्कारपारगमः । श्रीमत्केशवामिश्रमद्भुतगुणावासं नियुज्य स्वयं चक्रे शक्रसमः प्रबन्धम(५)मलं माणिक्यचन्द्रो नृपः ।। इति श्रीमन्महाराजमाणिक्यचन्द्रकारिते केशवमिश्रकृते अलङ्कारशेखरे विश्रमरत्ने अनुकूलवर्णादिमरीचिः। - समाप्तश्वाऽयं ग्रन्थः । (१) विषन्तो-इति ख,घपु० पाठः। (२) पांसुलाः स्मृताः-इति कपु, पांसुलाः सुमा:-इति घपु० पाठः। (३) संख्यासौष्ठव"प्रत्यर्थप्रतिबन्ध"गुणः-इति ख,घपु० पाठः । (४) कुत्राप्यतो-इति कपु० पाठः। (५) मनघं-इति ख,घपुस्तकयोः पाठः।

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152