Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
८६
अलङ्कारशेखरे -
सव्रीडा नयननिपातनात् । अत्र व्रीडादीनां स्वस्वभावमतिपादितानां चमत्कारजनकत्वस्य सहृदयसाक्षिकतया तदभावादेव रसभङ्ग इत्युचितम् । एतदेव प्रत्युदाहरणेन प्रतिपादयन्ति - ध्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि । मलिः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे इत्यादि । स्थायिनो यथा
संप्रहारे प्रहरणैः महाराणां ( १ ) परस्परम् । उणत्कारैः (२) श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥ संप्रहारः संग्रामः । अत्रोत्साहस्य | रसस्थ रसशब्दप्रतिपादि
-
तस्य रसाऽजनकत्वम् । यथा-
तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूलशोभिनीम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसां निरन्तरः ।।
शृङ्गारादिपदप्रतिपादितस्य यथाआलोक्य कोमलकपोलवलाभिषिक्तव्यक्तानुरामसुभगामभिराममूर्तिम | पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥ अनुभावस्य कष्टमकल्पनीयत्वं यथाकर्पूरधूलिधवलद्युतिपूरधौत
दिखण्डले शिशिररोचिषि तस्य यूनः । कीला शिरोंऽशुक निवेश विशेषक्लृप्तिव्यक्तस्तनोन्नतिर भून्नयनानौ सा ॥
( १ ) स्वहाराणां - इतिकपु० पाठः ।
(२) पुस्तकयेऽपि झणत्कारै:- इति पाठः । स चाऽसङ्गत इव
प्रतिभाति ।

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152