Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 127
________________ अलङ्कारशेखरे - अत्र शृङ्गारे प्रतिकूळस्य शान्तस्यानित्यताप्रकाशन रूपो वि. - भावः तत्मकाशितो निर्वेदश्च व्यभिचार्युक्तोऽयुक्तः (१), शान्ते निः र्वेदस्य स्थायित्वात् । व्यक्तिविपर्यय इति । ययक्तौ यद्वर्णनमनुचितं तत्र तद्वर्णनम् । व्यक्तयो दिव्या अदिव्या दिव्यादिव्याश्च । तंत्र दिव्यत्वम् - अमत्यैकरूपता । यथा- शिवादेः शेषादेः । दिव्यत्वम् मत्यैकरूपता । यथा-मालतीमाधवादेः (२) । दिव्यादिव्यत्वम्उभयरूपत्वम् (३) । यथा श्रीकृष्णादेः । त्रिविधा अप्येते चतुर्वि घा (४) भवन्ति । वीररौद्रशृङ्गारशान्तरसंधानीः धीरोदात्तधीरोद्धतधीरललितधीर मशान्ताः। यथा- रामभार्गव श्रीकृष्णजीमूतवाहनाः । एते चोत्तममध्यमाधमभेदाद्बहवो भवन्ति । तत्र स्वःपा तालगमन समुद्राद्युल्लङ्घनपर्वतस्फोटनाद्युत्साहो दिव्येष्वेव वर्णनीयः । अदिव्येषु तु यावदेव लोकप्रसिद्धमुचितं तावदेव वर्ण. नीयम् | अनौचिती च महान् रसदोषः । सा चभवानीशङ्करादीनां पित्रोर्वा केलिवर्णनम् । अत्युक्तिर्वा नमःसाभ्यं स्तनादा (५) वित्यनौचिती ॥ इत्यनेनोक्तास्ति(६) । यद्यपि कुमारसम्भवे कालिदासेन वर्णितम्, तथाप्यर्वाचीनैर्न कर्तव्यम् । नहि गजादीनामौदर्य तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्यदर्येण (७) तेजसा तथा भ - : ८÷ ( १ ) रूपोऽनुभावः तत्र प्रकाशितो निर्वेदस्य - इति कपुस्तके (२) मत्यैकरूपता - मालती - इति क, घपुस्तकयोर्नास्ति । - (३) उभयरूपत्वं इति क, घपुस्तकयोर्न दृश्यते । (४) अध्येताश्चतुर्धा - इति कपु० पाठः । 1 (५) स्तनादौ स्यादनौचिती - इति ख, घपु० पाठः । ( ६ ) इत्यनेनास्ति वर्णनम् - इति कपु० पाठः । (७) गजादीनामुदयै त्यस्मदादीनामुदर्येण इति क, ख - " - पुस्तकयोः । -1

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152