Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अष्टमरनं द्वितीयमरीचिः।
वितव्यमिति न्यायात् । तस्यापि दोषत्वाद्वा दोषान्तरवदिति(१)।
दोषो व्यक्तिविवेकेऽयं कविलोकविलोचने । काव्यमीमांसकप्राप्तमहिमा महिमाऽऽहत:(२)। यदाह महिमा- . .. अनौचित्याहते नान्यद्रसभङ्गस्य कारणम् ।
प्रसिद्ध्यौचित्यमूला हि रसस्योपनिषत्परा ॥ ईदृशा इत्यनेनान्येऽप्यनौचित्यहेतवो दोषा भवन्तीति दर्शितम् । यथा-नायिकाया मानादिना चरणप्रहारादिना वा नायकस्यात्यन्तिककोपादिवर्णनम् । व्यक्तिविपर्ययानौचित्ययोरवान्तर. भेदविवक्षयेदं(३) भेदकथनम् । अमीषां कचिददोषतापि । यत्र न रसहानिर्भवति तत्र सहृदयरैव पर्यालोचनीयमिति ग्रन्थगौरव. भयानेह तन्यते इति ।
इत्यलङ्कारशेखरे विश्रमरत्ने रसदोषमरीचिः। इदानीमनुकूलान वर्णादीनाह(४)उद्दामा वीररौद्रादौ छन्दोरीत्यक्षरादयः ।। हृद्याः शङ्गारहास्यांदो परयोर्मध्यमा गतिः॥१॥
रौद्रादावित्यादिपदेन भयानकस्य, हास्यादाविति करुणस्य परिग्रहः । परयोर्वीभत्साद्भुतयोः । शान्तस्य नियमो
(१) दोषान्वक्तुं वदन्ति-इति कपु० पाठः । (२) 'दोषो व्यक्तिविवेकेऽमुं..."मीमांसिकप्राप्त'-'दोषं....."वि.
घेकेषु...."मीमांसिषु प्राप्तं'-'दोषं"मीमांसिषु प्राप्तमहि. मा महिताहते'-इति पाठवयं क्रमेण क,ख,घपुस्तकेयू.
पलभ्यते। (३) विवक्षया भेदः-इति क,घपु० पाठः। (४)वर्णनीयानाह-इति कपुः पाठः ।।

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152