Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 126
________________ अष्टमरले द्वितीयमरीचिः । अत्र चन्द्रादय उद्दीपनविभावाः शृङ्गार (१) योग्यानुभावप्रतीत्यास्वादनाऽपर्यवसायिनः स्थिताः । यद्यप्यंशुकनिवेशो ऽनुभावस्वयोग्यस्तथापि तस्य स्तनव्यक्तिप्रयोजकत्वेनोपादानादनुभावत्वापर्यवसानम् (२) । यद्वा पुंनिष्ठ एव शृङ्गारः प्रतिपिपाद विषितः, 'अभूनयनावनौ से' त्यनेन तस्यैवालम्बनत्वप्रतिपादनात् । नच पुंसि - कश्चिदनुभाव उपात्तः, नच विभावैराक्षेपाई इति कष्टेन कल्पनीयः । विभावस्य यथापरिहरति रतिं मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत ! विषमा दशाऽस्य देहं परिभवति प्रसभं मित्र कुर्मः ॥ 'इत्यनेन प्रकारेणास्य दशा देहं परिभवति' इत्यन्वयः । अत्र रतिपरिहारादीनामनुभावानां करुणादावपि (३) सम्भवात् कामिनीरूपो विभावो यत्रप्रतिपाथः, प्रकरणादिसापेक्ष (४) त्वात् । प्रकृतरसविरोधिविषयको विभावादिः । तत्र विभावव्यभिचागोरुदाहरणं यथा प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये ! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ॥ ( १ ) शृङ्गारयोग्या अनुभावाप्रतीस्था-इति खपु०, योग्या अनु· भावाः प्रतीत्यानास्वादना - इति च घपु०पाठः । ( २ ) पादानात्तस्य तदनुभावकत्वपर्यवसानम् - इति ख, धपु० पाठः । (३) संभावनास्कामिनीरूपो विभावोऽप्यत्र प्रतिपाद्यः - इति कपु० पाठः । ( ४ ) सभ्यपतत्वात् - इति घपुस्तके ।

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152