Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अष्टमरने प्रथममरीचिः । नायकाश्रयो यथात्वं मुग्धाक्षि ! विनैव कञ्चुलिकया धत्से मनोहारिणी
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । वाय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलोकवचनोपन्यासमालीजनः ॥ रूपसौभाग्यसम्पन्नः कुलीनः कुशलो युवा ॥ अनुडतः सूनृतवाङ् नायकः प्रीतये स्त्रियाः॥८॥ अयं बहुपकारोऽपि संक्षेपेण चतुर्विधः। अनुकूलो दक्षिणश्च शठधृष्टौ च ते यथा ॥ नीलीरागो(१)ऽनुकूलः स्यादनन्यरमणीरतः॥९॥ दक्षिणश्वाऽन्यचित्तोऽपि यः स्यादविकृत: स्रियाम्॥ प्रियं वत्याप्रियं तस्याः कुर्वन् यो विकृतः(२) शठः॥१०॥ धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः॥ । विप्रलम्भस्तुभावो यदा रतिर्नाम प्रकर्षमधिगच्छति ॥ ११ ॥ नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥ अभीष्टं स्त्रीपुंसलक्षणमेव । स चपूर्वानुरागो मानारमा प्रवासः करुणात्मकः ॥१२॥ विप्रलम्भश्चतुर्धा स्यात्पूर्वपूर्वो ह्ययं गुरुः । स्त्रीपुंसयोनवाऽऽलोकादेवोल्लसितरागयोः ॥ १३ ॥ ज्ञेयः पूर्वानुरागोऽयमलाभादतिकामयोः ॥ यथाप्रेमाः प्रणयस्पृशः परिचयादुद्गारागोदया- .....
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुमयि । (१) लीनरागो-इति कपुस्तके पाठः प्रकृतविरुद्धः। (२) कुर्वन्नविकृती-इति कपुस्तक।. .

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152