Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
अलङ्कारशेखरे
तन्त्र नेत्रविकारः (१)स्यात्पुलका स्वेद एव च॥ निस्पन्दनेत्रता साधुसाधुवादास्तथा(२) मताः ॥ २७॥ यथाचित्रं कनकलतायां शरदिन्दुस्तत्र खञ्जनद्वितयम् ।
तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि ॥ सम्यगज्ञानसमुत्थानः शान्तो निस्पृहनायकः ॥ रागद्वेषपरित्यागे सम्यग्ज्ञानस्य चौद्रयः॥ २८ ॥ पश्चात्तापः शरीरादियावस्तुविडम्बनम् ॥ ..., विवेकचित्तस्थैर्यादियोगाद्यास्तस्य लक्षणम् ॥ २९ ॥ यथाअहो वा हार वा कुसुमशयने वा दृषदि वा .
मणौ वा लोष्ठे वा बलवति रिपो वा मुहृदि वा । तृणे वा स्टेणे वा मम समहशो यान्तु दिवसाः . कचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ स्टेणं स्त्रीसमूहः । अत्राऽहिरिव हारो हेयो नतु हारवदहिरप्युपादेय इति बोद्धव्यम् । अत्र सर्वत्र तत्तद्रसमात्रे(३) उदाहरणमिति स्मर्तव्यम् । इदानीं रसानामविरोधविरोधावाहशृङ्गारहास्यौ करुणबीभत्सौ वीररौद्रको ॥ भयानकाऽभुतौ मित्रे मिथः शान्तो न कस्यचित् ३० शान्ते करुणवीभत्सी न किंचिवष्टि चाऽद्भुतः ॥ शृङ्गारे शान्तकरुणौ हास्यस्य करुणो रिपुः ॥ ३१ ॥ (१) नेत्रविकासः-इति घपुस्तके। (२) तथा च गी:-इति स्ख,घपु० पाठः। . (३) तत्तद्रसत्वमा-इति क,खपुस्तकयोः पाठः ।.....

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152