SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अष्टमरने प्रथममरीचिः । नायकाश्रयो यथात्वं मुग्धाक्षि ! विनैव कञ्चुलिकया धत्से मनोहारिणी लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । वाय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलोकवचनोपन्यासमालीजनः ॥ रूपसौभाग्यसम्पन्नः कुलीनः कुशलो युवा ॥ अनुडतः सूनृतवाङ् नायकः प्रीतये स्त्रियाः॥८॥ अयं बहुपकारोऽपि संक्षेपेण चतुर्विधः। अनुकूलो दक्षिणश्च शठधृष्टौ च ते यथा ॥ नीलीरागो(१)ऽनुकूलः स्यादनन्यरमणीरतः॥९॥ दक्षिणश्वाऽन्यचित्तोऽपि यः स्यादविकृत: स्रियाम्॥ प्रियं वत्याप्रियं तस्याः कुर्वन् यो विकृतः(२) शठः॥१०॥ धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः॥ । विप्रलम्भस्तुभावो यदा रतिर्नाम प्रकर्षमधिगच्छति ॥ ११ ॥ नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥ अभीष्टं स्त्रीपुंसलक्षणमेव । स चपूर्वानुरागो मानारमा प्रवासः करुणात्मकः ॥१२॥ विप्रलम्भश्चतुर्धा स्यात्पूर्वपूर्वो ह्ययं गुरुः । स्त्रीपुंसयोनवाऽऽलोकादेवोल्लसितरागयोः ॥ १३ ॥ ज्ञेयः पूर्वानुरागोऽयमलाभादतिकामयोः ॥ यथाप्रेमाः प्रणयस्पृशः परिचयादुद्गारागोदया- ..... स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुमयि । (१) लीनरागो-इति कपुस्तके पाठः प्रकृतविरुद्धः। (२) कुर्वन्नविकृती-इति कपुस्तक।. .
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy