SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ७८ अलङ्कारशेखरेयास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ अथाऽन्यवनितासक्तमवगम्य स्ववल्लभम् ॥ १४ ॥ ईष्यावशेन मुख्यमेष मान उदाहृतः ।। यथासा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाऽङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ प्रवासः परदेशस्थे द्वितीये बिरहोद्भवः ॥ १५ ॥ यथात्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया मात्मानं ते चरणपतितं यावदिच्छामि कतुम् ॥ अस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ .... इसादि। स्थादेकतरपश्चत्वे दम्पत्योरनुरक्तयोः ॥ शृङ्गारः करुणाख्योऽयमजस्येव रतेरिव(१)॥१६॥ ननु शृङ्गारस्य रतिप्रकृतित्वात्तस्याश्च सुखसंवेदनरूपत्वा त्तस्य विमलम्भेऽसम्भवात् (२)स कथं शृङ्गारभेद इति चेन, 'धन्योऽहमस्याः कृते दशामिमामनुभवामि' इति तत्रापि तद भिमानात (३)। कचित्सम्भोगपोषकत्वेन स्पृहणीयत्वाचेति वि. (१) विप्रलम्भेऽभावात्-इति कपु० पाठः। (२) स्येन्दुमतीरिव-इति घपु० पाठः। (३) तदभिधानात्-इति कपु० पाठः
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy