________________
अलङ्कारशेखरे
तत्र स्त्रीपुंसलक्षणेष्टमाप्तौ रतिरेव सम्भोगः । तदुत्तम्
अनुरक्तौ निषेवेतां यत्रान्योन्यं विलासिनी । दर्शनस्पर्शनादीनि सम्भोगोऽयमुदाहृतः ॥ तत्र नायिकाश्रयः सम्भोगो यथा
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै... निद्राव्याजमुपागतस्य मुचिरं निर्वये पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ आलोक्य नम्रमुखीत्यन्वयः । नायिका चतुर्धा-- अनूढा च स्वकीया च परकीया पणाङ्गाना(१) ॥२॥ त्रिवर्गिणः स्वकीया(२) स्यादन्याः केवलकामिनः ॥ तत्रअनुरक्ताऽनुरक्तन स्वयं या स्वीकृता भवेत् ॥३॥ साऽनूढेति यथा राज्ञो दुष्यन्तस्य शकुन्तला ॥ देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका ॥४॥ परकीयाऽप्यनूढैव विशेषस्तु स्फुटस्तयोः॥ सामान्यवनिता वेश्या भवेत्कपटपण्डिता ।।५।। नहि कश्चित्प्रियस्तस्या दातारं पुरुषं (३)विना ॥ अस्याः प्रकाशोऽन्यासां प्रच्छन्नो रमण इति विशेषः । ताश्चाष्टधाखण्डितोत्कण्ठिता प्रोष्यत्पतिका(४) चाभिसारिका६॥ कलहान्तरिता वासकसज्जा विप्रलब्धिका ॥ स्वाधीनभर्तृका चान्या चतस्रोऽप्यष्टधा मताः ॥७॥ (१) वराङ्गना-इति कपु०, पराङ्गना-इति च घपु० पाठः । (२) त्रिवर्णिना-इति कपुस्तके । (३) नायक-इति क,पु० पाठः। (४)खपुस्तके शोषित्पतिका-इति पाठः। सवाशुख एवेत्युपेक्ष्यः।