Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 114
________________ अष्टमरत्ने प्रथममरीचिः । अष्टमं रत्नम् | 'रस आत्मे' स्युक्तम् । तत्र यथात्मानं विना शरीरमप्रयो जकम्, तथा रसं बिना काव्यम् । यथाह - साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यं न स्यादसिकतुष्टये ॥. तत्र रसत्वमङ्गाङ्गिभावान्न सकलविभावादिसाक्षात्कारक त्वम् । विशेषणं (१) समूहालम्बनवारणाय । रसत्वमपि जातिरिति वयम् । केचित्तु - कारणेनाऽथ कार्येण सहकारिभिरेव च । व्यक्तत्वं नीयमानस्तु स्थायी भावो रसः स्मृतः ॥ कारणमङ्गनानवयौवनादि । कार्याणि - स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमयावित्यष्टौ सात्विका मताः ॥ सहकारिण उद्यानादयः । व्यभिचारिणो ग्लान्यादयः । यदाहुः - विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः । आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥ तमिदानीं विभजते- ७५. शृङ्गारहास्य करुणरौद्रवीरभयानकाः ॥ बीभत्साऽद्भुत शान्ताश्च काव्ये नव रसाः स्मृताः ॥ १ ॥ शृङ्गारस्वहास्यत्वादिकं जातिविशेष एव (२) । व्यक्ति प्रश्नस्तु सु. खज्ञानात्मकरसवादिमतेन भवत्येवेति दिक् । तत्र शृङ्गारं विभजतेसम्भोगो विप्रलम्भय शृङ्गारो द्विविधः स्मृतः ॥ ( १ ) अाङ्गीत्यादि समूहा - इति ख, घपु० पाठः । ( २ ) वाक्यमिदं कपुस्तके नास्ति । -

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152