Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
चतुर्थरने प्रथममरीचिः
३१
अत्र 'विट' इत्यत्र विकारस्थाने घकारदाने द्वितीयोऽर्थो भवति । सा च षोढा । तदाह
प्रहेलिका सकृत्पश्नः सा च षोढा च्युताक्षरा । .
दत्ताक्षरोभयं मुष्टिबिन्दुमत्यर्थवत्यपि(१)॥ प्रश्नोत्तरमपि द्विविधम् , बहिरन्तश्च । तत्र बहिः प्रश्नोत्तरं यथा
प्रायः कार्ये नियुज्यन्ते जनाः सर्वत्र कीदृशाः ।
'धाने त्ययं(२) भवेच्छब्दो नौवाची वद कीदृशः ॥ सावधानाः(३)। अन्तः प्रश्नोत्तरं यथा
काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम्(४)। कथमुक्तं न जानासि कदर्थयसि यत्सखे । ।
अतुल्यार्थत्वे सत्यानुपूर्वी विशेषविशिष्टनियतव्यअनसमुदा. याभ्यासो-यमकम् । यथा
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।। मृदुलतान्तलतान्तमलोकयत् स मुरभि सुराभिं सुमनोभरैः। तच्चेदं सङ्कपेण सप्ताशीतिप्रकारमिति चान्यत्र विस्तरः । एतचित्रमिति (५) गोवर्धनः । इत्यलङ्कारशेखरे अलङ्काररत्ने शब्दालङ्कारमरीचिः ।
(१) विद्रुमर्त्यथवत्यपि-इति कपु० पाठः। (२) नाधेत्ययं-इति क,गपुस्तकयोः पाठः। (३) सौ~औकारसहितः अधा-धाकाररहितश्च नाः।
'नौः' इत्यर्थः। (४)का-प्रतिध्वनिकारिणीति, गुहा-संवरणकारिणीतिवोत्तरम्।
कायतेः 'अन्येभ्योऽपी'ति डः, स्त्रीत्वाट्टाप् ।
गृहतस्तु इगुपधलक्षणः कः, अदन्तत्वाहा। (५) एतचित्र एवान्तर्भूतमिति-इति खपुस्तके।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152