Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 97
________________ ५८ अलङ्कारशेखरे तमर्थमनुबध्नाति तच्छीळं तनिषेधति ॥ तस्य चानुकरोतीति तमर्थमनुवि(१)न्दति । आकारयत्याहयते जिगीषति सरोरुहम् ॥ . . विधिरम्भोजसाम्राज्ये मुखेन्दुमभिषिञ्चति । तस्या मुखेन सहवं कश्चन्द्रं कर्तुमिच्छति(२) ॥ . भवन्दुिर्न दासोऽपि त्वदास्यं चेत् किमिन्दुना। चन्द्रमूर्ध्नि पदं धत्ते तथा चन्द्रस्तपस्यति(३) ॥ लीयते चन्द्रमाः कापि बिभेति च पलायते ।। दण्डी तुप्रतिच्छन्दसरूपादिसजातीयाऽनुवादिनः। सलक्षणसपक्षाभसवर्णतुलितादिकम् ॥... कल्पदेशीयदेश्यादि ये चान्यूनार्थवाचिनः । समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ॥ भवन्तीवादिशब्दाश्च सादृश्यप्रतिप्रत्तये । इसाह । ..... . ... कवीनां घटनाऽन्यैव चराचरविलक्षणा। अकर्तुमन्ययाकर्तुं कर्तुं या क्षमते जगत् ।। इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे - वर्णकरत्ने सादृश्यवर्णनमरीचिः। -1 (१) धावति-इति वपु० पाठः। (२) कः कर्तुं चन्द्रमीश्वरः-इति खपुस्तके । ... (३) चन्द्र प्रतप्यसि-इति कपुस्तके, चन्द्र तपस्यति-इति च खपुस्तके पाठो दृश्यते । तौ च दूषितत्वादसङ्गतत्वाच न शोभनीयो।

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152