Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 107
________________ अलङ्कारशेखरे- .. सप्त पाताल भुवनमुनिद्वीपार्फवाजिनः। .. वाराश्च स्वरराज्याव्रीहिवह्निशिखादयः ॥ अष्टौ योगाङ्गवस्त्रीशमूर्तिदिग्गजसिद्धयः । ब्रह्मश्रुतिव्याकरणदिक्पालाऽहिकुलाद्रयः ॥ नवाङ्गद्वारभूखण्डकृत्सरावणमस्तकाः । व्याघ्रीस्तनमुघाख(१)ण्डशेरध्य(२)ङ्करसग्रहाः ॥ दश हस्ताङ्गुलीशम्भुषाहुरावणमौलयः । कृष्णावतारो दिग्विश्वदेवाऽवस्थेन्दुगाजिनः ।। एकादश महादेवा: सेनाश्च कुरुभूपतेः । द्वादशार्का राशिमाससंक्रान्तिगुहबाहवः । शारिकोष्ठकसेनानीनेत्रक्षमापतिमण्डलाः । त्रयोदश स्युस्ताम्बूलगुणा अथ चतुर्दश । विद्यान्वयमनु(३)स्वाराड्भुवनध्रुवतारकाः ।। तिथयः स्युः पञ्चदश षोडशेन्दुकलाऽम्बि(४)काः । अष्टादश द्वीपविद्यापुराणस्मृतिधान्यकम् ॥ विंशती रावणभुजा(५)नेत्राघथ शतं तथा । धार्तराष्ट्राः शतभिषक्तारकाः पुरुषायुषम् ।। रावणाङ्गुल्यब्जदलशक्रयज्ञाब्धियोजनम् । सहस्रं जाह्नवीवक्त्रशेषशीर्षाम्बुजच्छदाः ॥ रविर(६)श्म्यर्जुनकरवेदशाखेन्द्रदृष्टयः । उदाहरणमेतेषां प्रसिद्धत्वान्न लिख्यते । प्रहते केवलं पान्था मादृशाः काव्यवनि ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे कविसम्प्रदायरत्ने सङ्ख्यानियममरीचिः । (१) कुण्ड-इति क.धपु० पाठः। (२) शृङ्गारादि-इति कपु० पाठः । (३) स्वराश्चैव-इति कपुः पाठः । (४) कलाः स्मृताः इति कपुस्तके । (4) भुजालयोऽथ-इति क,घपु० पाठः। (६) बाणार्जुन-इति ख,घपुपाट।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152