SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ चतुर्थरने प्रथममरीचिः ३१ अत्र 'विट' इत्यत्र विकारस्थाने घकारदाने द्वितीयोऽर्थो भवति । सा च षोढा । तदाह प्रहेलिका सकृत्पश्नः सा च षोढा च्युताक्षरा । . दत्ताक्षरोभयं मुष्टिबिन्दुमत्यर्थवत्यपि(१)॥ प्रश्नोत्तरमपि द्विविधम् , बहिरन्तश्च । तत्र बहिः प्रश्नोत्तरं यथा प्रायः कार्ये नियुज्यन्ते जनाः सर्वत्र कीदृशाः । 'धाने त्ययं(२) भवेच्छब्दो नौवाची वद कीदृशः ॥ सावधानाः(३)। अन्तः प्रश्नोत्तरं यथा काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम्(४)। कथमुक्तं न जानासि कदर्थयसि यत्सखे । । अतुल्यार्थत्वे सत्यानुपूर्वी विशेषविशिष्टनियतव्यअनसमुदा. याभ्यासो-यमकम् । यथा नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।। मृदुलतान्तलतान्तमलोकयत् स मुरभि सुराभिं सुमनोभरैः। तच्चेदं सङ्कपेण सप्ताशीतिप्रकारमिति चान्यत्र विस्तरः । एतचित्रमिति (५) गोवर्धनः । इत्यलङ्कारशेखरे अलङ्काररत्ने शब्दालङ्कारमरीचिः । (१) विद्रुमर्त्यथवत्यपि-इति कपु० पाठः। (२) नाधेत्ययं-इति क,गपुस्तकयोः पाठः। (३) सौ~औकारसहितः अधा-धाकाररहितश्च नाः। 'नौः' इत्यर्थः। (४)का-प्रतिध्वनिकारिणीति, गुहा-संवरणकारिणीतिवोत्तरम्। कायतेः 'अन्येभ्योऽपी'ति डः, स्त्रीत्वाट्टाप् । गृहतस्तु इगुपधलक्षणः कः, अदन्तत्वाहा। (५) एतचित्र एवान्तर्भूतमिति-इति खपुस्तके।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy