________________
अलङ्कारशेखरेवर्णसाम्यमनुमासः । स च द्विविधः, लाटानुप्रासश्छेका. नुप्रासश्च । तत्राऽसकृदावृत्तवर्णत्वम्-लाटानुमासः । यथा
अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितः ।
आलिङ्गितः स तन्वया कृतार्थयतु मानसम् ।। अनेकस्य व्यअनस्य सकृत्साम्यम्-छेकानुप्रासः । यथानितम्बगुर्वी गुरुणा प्रयुक्ता चधुर्विधातृप्रतिमेन तेन । चकार सामत्तचकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ ।। 'पदमेकं हृदा कृत्वा तदनुपासकाम्पया
आदिक्षान्तलिपो कादिक्षान्तशब्दं विचिन्तयेत्' ।। इति रहस्यम् । गूढम्-क्रियागुप्तादिः । यथा
पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः ।
सहकारमा रम्या वसन्ते कामपि श्रियम् (१) ॥ इद च नाना । यदाहु:--.. क्रियाकारकसम्बन्धगुप्तान्यामन्त्रितस्य च ।
गुप्त तथा समासस्य लिङ्गस्य वचनस्य च ॥ एकोच्चारणापन्हुतभेदत्वम्-श्लेषः। यथा-'येन ध्वस्तमनोभबेने त्यादौ । अयं चाष्टधा । यदाह--
विभक्तिपदवर्णानां लिङ्गस्य वचनस्य च ।
भाषामकृत्योर्भेदेन श्लेषाः स्युः प्रत्ययस्य च ॥ प्रहेलिका-सकृत्पश्नः । सा च च्युताक्षरा दत्ताक्षरादिः । यथा
विदग्धः सरलो रागी नितम्बोपरि संस्थितः ।
तन्वझ्याऽऽलिङ्गितः कण्ठे कलं कूजति को विटः ॥ (१) अत्र 'अधुः' इति क्रिया । रम्या एते सहकारदमाः पुंस्को.
किलकुलस्य आरवसन्ते नितान्तं कामपि श्रियं अधुःइत्यन्वयः।